भारत-यूनाइटेड-किङ्ग्डम् सीईटीए-अन्तर्गतं जयपुरात् प्रथमः आभूषण-निर्यात-भाग: प्रेषितः
जयपुरम्, १५ जुलाईमासः (हि.स.)। भारत-यूनाइटेड-किङ्ग्डम्-व्यापक-आर्थिक-वाणिज्य-सन्धे: अन्तर्गतं बुधवासरे जयपुरस्य सांगानेर-अन्ताराष्ट्रिय-विमानस्थानकस्थितात् वायु-माल-परिसरात् यूनाइटेड-किङ्ग्डम्-देशाय प्रथमः आभूषण-निर्यात-भाग: प्रेषितः। प्रायः १० मि
India-Uk Ceta Jewellery Export


जयपुरम्, १५ जुलाईमासः (हि.स.)। भारत-यूनाइटेड-किङ्ग्डम्-व्यापक-आर्थिक-वाणिज्य-सन्धे: अन्तर्गतं बुधवासरे जयपुरस्य सांगानेर-अन्ताराष्ट्रिय-विमानस्थानकस्थितात् वायु-माल-परिसरात् यूनाइटेड-किङ्ग्डम्-देशाय प्रथमः आभूषण-निर्यात-भाग: प्रेषितः। प्रायः १० मिलियन-अमेरिकी-डॉलर-मूल्यस्य अस्मिन् भागे सुवर्ण-हीरक-जटित-रजत- तथा प्लेटिनम्-निर्मितानि आभूषणानि समाविष्टानि सन्ति।

अस्मिन्नवसरे आयोजिते समारोहे सीमाशुल्क-विभागस्य अतिरिक्त-आयुक्तः नीरज-दुबे, अतिरिक्त-आयुक्ता सुनीता-वर्मा, उप-आयुक्तः जितेन्द्र-मीणा तथा जेम् एण्ड् ज्वेलरी एक्सपोर्ट् प्रमोशन् काउन्सिल् इत्यस्य राजस्थान-क्षेत्रीयाध्यक्षः योगेन्द्र-गर्गः उपस्थिताः आसन्। अयं ध्वजारोहण-समारम्भः देशव्यापि-अभियानस्य भागः अस्ति, यस्य अन्तर्गतं देहली, मुम्बई, सूरत्, चेन्नई, कोलकाता इत्यादि-नगरभ्यः अपि सीईटीए-अन्तर्गतं यूनाइटेड-किङ्ग्डम्-देशाय प्रथमाः आभूषण-निर्यात-भागा: प्रेष्यन्ते।

सीमाशुल्क-आयुक्तः आर.के. चन्दनः अवदत् यत् भारत-यूनाइटेड-किङ्ग्डम्-सीईटीए-अन्तर्गतं प्रथम-निर्यात-भागस्य प्रेषणम् भारतस्य निर्यात-यात्रायाः महत्त्वपूर्णं सोपानम् अस्ति। सीमाशुल्क-विभागः शीघ्र-सुगम-निकासी-प्रक्रियायाः माध्यमेन वाणिज्यस्य निरन्तर-सहयोगाय प्रतिबद्धः अस्ति।

जीजेईपीसी-अध्यक्षः किरीट-भंसाली अवदत् यत् एषः सन्धि: भारतीय-रत्न-आभूषण-उद्योगस्य कृते नूतन-युगस्य आरम्भः अस्ति। अस्य प्रवर्तनात् भारतीय-निर्यातकानां यूनाइटेड-किङ्ग्डम्-विपणे शून्य-सीमाशुल्कस्य लाभः भविष्यति तथा च तत्र प्रवर्तमाना चतु:-प्रतिशत-पर्यन्ता आयात-शुल्क-व्यवस्था समाप्ता भविष्यति। अनेन भारतीय-निर्यातकाः प्रतिस्पर्धात्मक-लाभं प्राप्स्यन्ति तथा च निर्यात-निवेश-रोजगार-क्षेत्रेषु नूतनाः अवसराः सृज्यन्ते।

तेन उक्तं यत् शून्य-सीमाशुल्क-सुविधायाः लाभेन भारतस्य यूनाइटेड-किङ्ग्डम्-देशाय रत्न-आभूषण-निर्यातः आगामि-त्रिवर्षेषु प्रायः ७५४ मिलियन-अमेरिकी-डॉलरात् वर्धमानः २.५ बिलियन-अमेरिकी-डॉलर-पर्यन्तं गन्तुं सम्भावना अस्ति।

जीजेईपीसी-राजस्थान-क्षेत्रीयाध्यक्षः योगेन्द्र-गर्गः अवदत् यत् जयपुरं वर्णमय-रत्नानां, हस्तनिर्मित-आभूषणानां तथा उत्कृष्ट-शिल्पकलायाः कृते विश्वविख्यातम् अस्ति। सीईटीए-माध्यमेन राजस्थानस्य रत्न-आभूषण-उद्योगाय विपण्याः उत्तमा उपलब्धिः, मूल्य-संवर्धित-विनिर्माणम्, रोजगार-सृजनम्, कौशल-विकासः तथा एमएसएमई-उद्यमिनां, शिल्पिनां, निर्यातकानां च नूतनाः अवसराः भविष्यन्ति।

उल्लेखनीयं यत् भारत-सर्वकारस्य वाणिज्य-मन्त्रालयेन वर्षे १९६६ तमे जेम् एण्ड् ज्वेलरी एक्सपोर्ट् प्रमोशन काउन्सिल इति संस्था स्थापिता। सा देशस्य प्रमुखासु निर्यात-संवर्धन-परिषदासु अन्यतमा अस्ति। अस्याः ११ सहस्राधिकाः सदस्याः सन्ति तथा च मुख्यालयं मुम्बई-नगरे वर्तते। नवदेहली, कोलकाता, चेन्नई, सूरत तथा जयपुरे अपि अस्याः क्षेत्रीय-कार्यालया: सञ्चालिता: सन्ति।

Hindusthan Samachar / Divya Ranjan