नोएडा-किङ्ग्स-दलस्य चयन-परीक्षणं १७ जुलाईमासे नोएडानगरे भविष्यति, मुरादाबादतः अपि क्रीडकाः गमिष्यन्ति
मुरादाबादम्, १५ जुलाईमासः (हि.स.)। उत्तरप्रदेश-क्रिकेट्-टी–२०-स्पर्धाया: चतुर्थ-सत्रस्य सज्जता तीव्रतया प्रचलति। एतस्यैव सम्बन्धे नोएडा-किङ्ग्स-दलेन चयन-परीक्षणस्य तिथयः घोषिताः। दलस्य पक्षतः १७ जुलाईमासे नोएडा-स्थिते शहीद-विजयसिंह-पथिक-क्रीडा-सङ्क
डिस्ट्रिक्ट स्पोर्ट्स एसोसिएशन ( डीएसए ) मुरादाबाद के सचिव व पूर्व रणजी खिलाडी विजय गुप्ता


मुरादाबादम्, १५ जुलाईमासः (हि.स.)। उत्तरप्रदेश-क्रिकेट्-टी–२०-स्पर्धाया: चतुर्थ-सत्रस्य सज्जता तीव्रतया प्रचलति। एतस्यैव सम्बन्धे नोएडा-किङ्ग्स-दलेन चयन-परीक्षणस्य तिथयः घोषिताः। दलस्य पक्षतः १७ जुलाईमासे नोएडा-स्थिते शहीद-विजयसिंह-पथिक-क्रीडा-सङ्कुले क्रीडकाणां चयन-परीक्षणानि आयोजयिष्यन्ते।

मुरादाबाद-जनपदस्य डिस्ट्रिक्ट-स्पोर्ट्स-एसोसिएशन इत्यस्य सचिवः तथा पूर्व-रणजी-क्रीडकः विजय-गुप्तः अवदत् यत् अस्मिन् चयन-परीक्षणे मुरादाबादतः अपि बहुसंख्यकाः क्रीडकाः सहभागं कर्तुं सज्जाः सन्ति। जनपदस्य अनेके प्रतिभाशालिनः क्रीडकाः पूर्वमेव पञ्जीकरणं कृतवन्तः सन्ति तथा च चयनार्थम् उत्सुकाः सन्ति। सः अग्रे अवदत् यत् उत्तरप्रदेश-टी–२०-लीगस्य चतुर्थ-सत्रस्य शुभारम्भः अगस्तमासस्य १४ दिनाङ्कात् भविष्यति। अस्मिन् मेरठ-मेवरिक्स, गोरखपुर-लायन्स, काशी-रुद्रास, नोएडा-किङ्ग्स, कानपुर-सुपरस्टार्स तथा लखनऊ-फाल्कन्स इति दलानि सहभागं करिष्यन्ति। अधिकांश-दलानां चयन-परीक्षणानि प्रायः सम्पन्नानि सन्ति। अधुना नोएडा-किङ्ग्स-दलेन अपि स्वीय-चयन-प्रक्रिया आरब्धा। इच्छुकाः क्रीडकाः १६ जुलाईमासपर्यन्तं स्व-पञ्जीकरणं कर्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan