Enter your Email Address to subscribe to our newsletters

मेलबर्ननगरम्, १५ जुलाईमासः (हि.स.)। अभिनेत्री रानी-मुखर्जी भारतीय-चलच्चित्र-जगति सामाजिक-क्षेत्रे च तस्याः उल्लेखनीय-योगदानस्य कृते मेलबर्न-भारतीय-चलच्चित्र-महोत्सवस्य २०२६ सप्तदशे संस्करणे प्रतिष्ठितया ‘डॉक्टर-ऑफ-लेटर्स’ इति मानद-उपाधिना सम्मानिता भविष्यति। एषा उपाधिः ऑस्ट्रेलिया-देशस्य ला-ट्रोब-विश्वविद्यालयेन २०२६ तमवर्षस्य अगस्तमासस्य १४ दिनाङ्के मेलबर्न-नगरस्य फेडरेशन-स्क्वायर-इत्यत्र आयोज्यमाने विशेष-समारोहे प्रदास्यते। अस्य घोषणायाः अनन्तरं रानी-मुखर्ज्याः प्रशंसकेषु चलचित्र-जगति च हर्षस्य वातावरणम् अभवत्।
अस्य सम्मानस्य विषये प्रतिक्रिया प्रददती रानी-मुखर्जी अवदत् यत् एषा मानद-डॉक्टरेट-उपाधिः तस्याः कृते महत् गौरवस्य हर्षस्य च विषयः अस्ति। तया उक्तं यत् चलचित्रम् एव तस्याः जीवनस्य महान् शिक्षकः अभवत् तथा च अनेन माध्यमेन सा विश्वस्य विभिन्न-देशेषु स्थितैः प्रेक्षकैः सह सम्बद्धा अभवत्। सा अवदत् यत् मेलबर्न-भारतीय-चलचित्र-महोत्सवः निरन्तरं वैश्विक-स्तरे भारतीय-चलचित्रस्य गौरवं वर्धयति, अतः एतादृशे मञ्चे एतत् सम्मानं तस्याः कृते अधिकं विशेषम् अस्ति। स्वस्य अभिनय-जीवनस्य स्मरणं कुर्वती सा अवदत् यत् तस्यै तादृशानां कथानां सहभागिनी भवितुं अवसरः प्राप्तः, याभिः साहसस्य, संघर्षस्य, आशायाश्च सन्देशः जनान् प्रति प्रापितः।
रानी-मुखर्जी एतत् सम्मानं भारतस्य विश्वस्य च तेषां प्रेक्षकाणां समर्पितवती, येषां प्रेम्णा समर्थनस्य च प्रभावेण सा सफल-अभिनेत्री अभवत्। उल्लेखनीयं यत् आईएफएफएम २०२६ महोत्सवः अगस्तमासस्य १३ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं विक्टोरिया-सर्वकारस्य सहयोगेन मेलबर्न-नगरे आयोजयिष्यते। अस्मिन् महोत्सवे विभिन्न-देशेभ्यः चलचित्र-निर्मातारः, कलाकाराः, चलच्चित्र-रसिकाश्च सहभागं कृत्वा भारतीय-चलचित्रस्य उत्सवं आचरिष्यन्ति।
Hindusthan Samachar / Divya Ranjan