Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ जुलाईमासः (हि.स.)। केन्द्रीय-कृषि-कृषक-कल्याणमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् अग्रिमद्विवर्षयोः देशे १०० क्लाइमेट-स्मार्ट-ग्रामाः विकसिताः भविष्यन्ति। एतेषु ग्रामेषु जलवाय्वनुकूल-कृषिः, समन्वित-कृषि-प्रतिरूपम्, जल-मृदा-संरक्षणम् तथा समस्या-न्यूनीकरणस्य व्यावहारिक-उपायाः अवलम्बिताः भविष्यन्ति, येन कृषकाः परिवर्तमान-ऋतुष्वपि सुरक्षितां लाभप्रदां च कृषिं कर्तुं शक्नुयुः।
चौहानः गुरुवासरे पूसा-स्थले आयोजितायां पत्रकार-वार्तायाम् भारतीय-कृष्यनुसन्धान-परिषदः स्थापना-शताब्दी-वर्षस्य सन्दर्भे मन्त्रालयस्य कार्ययोजनां प्रस्तुतवान्। सः उक्तवान् यत् अग्रिमद्विवर्षयोः “एकम् संस्थानम्–एका अनुदान-नवोन्मेष-योजना” इत्यस्य अन्तर्गतं प्रत्येकं संस्थानेन न्यूनातिन्यूनम् एकां परिवर्तनकारीं प्रौद्योगिकीं वा समाधानं वा प्रदातव्यं, यस्य राष्ट्रियस्तरे व्यापकः प्रभावः भवेत्। एषः नवोन्मेषः कृषकाणां जीवने वास्तविकं परिवर्तनम् आनयेत्— सः नवीन-शस्य-प्रजातिः, टीका, अङ्कीय-उपकरणं वा जलवाय्वनुकूल-कृषि-प्रतिरूपं भवतु।
सः अवदत् यत् स्थापना-शताब्दी-वर्षपर्यन्तम् आईसीएआर-संस्थायाः लक्ष्यं भवेत् यत् तस्याः वैज्ञानिक-प्रौद्योगिक्यः, नवोन्मेषाः तथा आधुनिक-कृषि-समाधानानि न्यूनातिन्यूनं दशकोटि-कृषकेभ्यः प्राप्नुयुः। एतत् “विकसित-भारत-२०४७” इत्यस्य कृते विकसित-कृषेः समृद्ध-कृषकस्य च दिशि महत्त्वपूर्णं ऐतिहासिकं च पदम् इति सः वर्णितवान्। आईसीएआर-स्थापनादिवसः कृषकाणां मध्ये उत्सववत् आयोजनीयः इति सः सूचितवान्। तदर्थं पक्षकालात्मक-कार्यक्रमस्य योजनां क्रियताम्, यस्मिन् प्रत्येकं कृषक-विकास-केन्द्रम् न्यूनातिन्यूनं शतं ग्रामान् गत्वा स्वस्य अनुसन्धानस्य प्रौद्योगिकीनां च व्यापकं प्रदर्शनं कुर्यात्।
कृषकाणां सूचनानाम् उल्लेखं कुर्वन् चौहानः उक्तवान् यत् कृत्रिम-बीजानां तथा निकृष्ट-कीटनाशकानां नियन्त्रणाय कठोरः नियमः कालस्य आवश्यकता अस्ति। सः वैज्ञानिकान् आह्वानं कृतवान् यत् ते एतादृशीं सरलां प्रौद्योगिकीम् उपकरणानि च विकसयन्तु, येषां साहाय्येन क्षेत्रे एव बीजानां कीटनाशकानां च गुणवत्तायाः त्वरित-परीक्षणं कर्तुं शक्येत, येन कृषकाः वञ्चनात् रक्षिताः स्युः तथा शस्य-समस्या न्यूनीभवेत्।
केन्द्रीयमन्त्री शिवराजसिंहचौहानः एफ.एम.डी. तथा अन्येषां गम्भीर-पशुरोगाणां नियन्त्रणाय क्रियमाणानां प्रयत्नानां प्रशंसां कृत्वा उक्तवान् यत् टीकाभिः, नवीन-शस्य-प्रजातिभिः तथा प्रौद्योगिक्या बीज-उर्वरक-पशु-स्वास्थ्य-क्षेत्रेषु आत्मनिर्भरता एव अग्रे गन्तुं उचितः मार्गः अस्ति। सहैव सप्तत्यधिकैः सन्धिभिः तथा प्रौद्योगिकी-अनुज्ञापत्र-सन्धिभिः एताः प्रौद्योगिक्यः निजी-क्षेत्रस्य स्टार्टअप-संस्थानां च सहयोगेन शीघ्रतया कृषकेभ्यः प्रापयितुं दिशा निर्धारिता अस्ति।
Hindusthan Samachar / Divya Ranjan