Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १६ जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी जनसामान्यानां सूचनानां शीघ्र-निवारणस्य उद्देश्येन ‘जन-दरबार’ इति कार्यक्रमस्य प्रारम्भम् अकरोत्। एषः जन-दरबारः भारतीय-जनता-पक्षस्य साल्ट्-लेक्-स्थिते प्रदेश-कार्यालये आयोज्यते, यत्र बहुसंख्यकाः जनाः स्वकीयाः समस्याः, सूचना: तथा पूर्व-सर्वकारस्य कार्यकालेन सम्बद्धानां विषयाणां विवरणं मुख्यमन्त्रिणः पुरतः निवेदयन्ति।
जन-दरबारे सहभागीभवितुम् इच्छुकानां कृते निश्चिता प्रक्रिया निर्धारिता अस्ति। एतां प्रक्रियां विना मुख्यमन्त्रिणा सह साक्षात्कार: सम्भवः नास्ति।
जन-दरबारे प्रवेशार्थं प्रथमं आवेदकेन साल्ट्-लेक्-स्थिते भाजपा-कार्यालयस्य निर्धारित-काउण्टर-केन्द्रं गन्तव्यम्। तत्र स्वस्य सूचनायाः अथवा समस्यायाः विवरणं निवेदनीयम्। तेन सह सूचनासम्बद्धानि सर्वाणि आवश्यक-तथ्यानि प्रमाणपत्राणि च प्रस्तोतव्यानि।
काउण्टर-केन्द्रे उपस्थिताः अधिकारिणः प्रथमं स्वयमेव तस्याः सूचनायाः समाधानं कर्तुं प्रयतन्ते। यदि तत्रैव समस्यायाः निवारणं भवति, तर्हि मुख्यमन्त्रिणा सह साक्षात्कारस्य आवश्यकता न भवति।
यदि अधिकारिणः मन्यन्ते यत् विषयः जन-दरबारे प्रस्तोतव्यः अस्ति, तर्हि आवेदकस्य नाम, दूरभाष-सङ्ख्या तथा सूचनायाः विवरणं पञ्जीकृतं भवति। ततः आवेदकाय टोकन् प्रदीयते। आवश्यकता चेत् आधार-पत्रस्य, मतदाता-परिचय-पत्रस्य अथवा अन्यस्य वैध-परिचय-पत्रस्य विवरणमपि गृह्यते।
अनन्तरम् आवेदनस्य प्रारम्भिक-प्रक्रिया सम्पन्ना भवति। जन-दरबारस्य आयोजनात् सामान्यतया द्वि-त्रिदिनपूर्वं भाजपा-पक्षतः सम्बद्ध-व्यक्तिं प्रति दूरभाषेन सम्पर्कः कृत्वा निर्धारित-तिथेः समयस्य च सूचना दीयते। निर्धारित-दिवसे आवेदकेन स्वीयं क्रमपर्चिका तथा सर्वाणि मूल-तथ्यानि गृहीत्वा उपस्थातव्यं भवति।
मुख्यमन्त्रिणः जन-दरबारे प्रवेशस्य एष एव एकमात्रम् अधिकृतः उपायः अस्ति। पञ्जीकरणं विना अथवा केवलं प्रातःकालात् पङ्क्तौ स्थित्वा जन-दरबारे प्रवेशस्य अनुमतिः न दीयते। अतः इच्छुकैः निर्धारित-प्रक्रियायाः पालनम् अनिवार्यम्। एतावता एव न, अन्तर्जाल-माध्यमेन अपि पञ्जीकरणस्य काचिद् व्यवस्था नास्ति। पक्षस्य वक्तव्यं यत् राज्यस्य विभिन्न-भागेभ्यः जनाः जन-दरबारे सहभागितार्थम् आगच्छन्ति। ते कस्यापि भ्रमस्य स्थितौ न पतन्तु, न च कस्यचित् वंचनस्य शिकाराः भवेयुः, अतः एषा प्रक्रिया ज्ञातव्या।
Hindusthan Samachar / Dheeraj Maithani