प्रदेशे नूतनानाम् इलेक्ट्रिक बसयानानां संचालनं भवेच्छीघ्रं, चत्वारि नूतनानि ई-डिपोयानानि शुभारभन्ते : मुकेश अग्निहोत्री
शिमला, 16 जुलाईमासः (हि.स.)। उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान् यत् प्रदेशे शीघ्रमेव नवीनानां विद्युत्चालितयानानां सञ्चालनं प्रारभ्यते। एतेषां विद्युत्चालितयानानां सञ्चालनसम्बद्धाः सर्वाः औपचारिकप्रक्रियाः शीघ्रमेव सम्पन्नाः कृत्वा तानि प्
मुकेश अग्निहोत्री।


शिमला, 16 जुलाईमासः (हि.स.)।

उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान् यत् प्रदेशे शीघ्रमेव नवीनानां विद्युत्चालितयानानां सञ्चालनं प्रारभ्यते। एतेषां विद्युत्चालितयानानां सञ्चालनसम्बद्धाः सर्वाः औपचारिकप्रक्रियाः शीघ्रमेव सम्पन्नाः कृत्वा तानि प्रदेशवासिनां सेवायै समर्पितानि भविष्यन्ति। तेन सह प्रदेशे निर्मीयमाणानि चत्वारि नूतनानि ई डिपो केन्द्राणि अपि शीघ्रमेव प्रारभ्यन्ते।

अग्निहोत्री अद्य अत्र हिमाचलप्रदेशराज्यपथपरिवहननिगमस्य निदेशकमण्डलस्य त्रिषष्ट्यधिकशततमस्य उपवेशनस्य अध्यक्षतां कुर्वन् आसीत्। उपवेशने निगमस्य सञ्चालनम्, यात्रिसुविधाः तथा सार्वजनिकपरिवहनव्यवस्थां अधिकसुदृढां कर्तुं सम्बद्धेषु विविधविषयेषु चर्चा कृता। अस्मिन् अवसरे प्रदेशे चरणबद्धरूपेण समावेश्यमानानां २९७ विद्युत्चालितयानानां परीक्षणम् तथा तेषां सञ्चालनस्य सिद्धतायाः अपि समीक्षा कृता।

मुकेश अग्निहोत्री निगमस्य यानेषु टायराणां न्यूनतां प्रति असन्तोषं प्रकटयन् अधिकारिभ्यः निर्देशान् अददात् यत् भविष्ये कस्यापि यानस्य सञ्चालनं टायराणाम्, अवयवानाम् अथवा अन्यावश्यकसामग्रीणाम् अभावेन प्रभावितं न भवेत्। तेन उक्तं यत् आवश्यकसामग्रीणां समये उपलब्धिः सुनिश्चितव्या तथा पूर्वमेव वैकल्पिकव्यवस्थाः अपि कर्तव्याः, येन कस्यामपि परिस्थितौ यानानां सञ्चालनं न बाध्येत तथा यात्रिभ्यः कापि असुविधा न भवेत्।

उपमुख्यमन्त्री उक्तवान् यत् प्रदेशसरकारः सार्वजनिकपरिवहनव्यवस्थां आधुनिकां, सुरक्षितां तथा पर्यावरणानुकूलां कर्तुं निरन्तरं कार्यं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani