Enter your Email Address to subscribe to our newsletters


पूर्णिया, 16 जुलाईमासः (हि.स.)।
भगवतः जगन्नाथस्य पुरीनगरस्य पवित्रपरम्परानुसारं पूर्णियानगरे अपि श्रद्धया, भक्त्या तथा उल्लासेन सह भगवतः जगन्नाथस्य भव्यरथयात्रा निर्वाहिता।
पूर्णियास्थितात् प्राचीनभगवज्जगन्नाथमन्दिरात् निर्गतायां अस्यां रथयात्रायां सहस्रशः श्रद्धालवः सहभागिनः अभवन् तथा पुण्यलाभम् अलभन्त। उक्तं यत् पूर्णियानगरे प्रायः चतुःशतवर्षेभ्यः आरभ्य एषा धार्मिकपरम्परा अविच्छिन्नरूपेण प्रवर्तते।
रथयात्राकाले सम्पूर्णं वातावरणं जय जगन्नाथ, जय बलभद्र, जय सुभद्रा इति जयघोषैः भक्तिमयं जातम्। पुष्पैः मनोहरवस्त्रैश्च समलङ्कृते विशालरथे भगवान् जगन्नाथः, तस्य ज्येष्ठभ्राता बलभद्रः तथा भगिनी सुभद्रा मनोहरप्रतिमारूपेण विराजमानाः आसन्। मन्दिरप्राङ्गणे विधिपूर्वकं पूजार्चनां महाआरतिं च सम्पन्न्य रथयात्रा नगरभ्रमणार्थं प्रस्थापिता।
श्रद्धालवः भगवतः दर्शनं कृत्वा सुखस्य, शान्तेः तथा समृद्धेः प्रार्थनाम् अकुर्वन्। स्थाने स्थाने जनैः पुष्पवृष्ट्या रथयात्रायाः स्वागतं कृतम् तथा भक्तेषु प्रसादस्य शीतलपेयजलस्य च वितरणं कृतम्।
अस्मिन् पवित्रावसरे बिहारराज्यस्य भवननिर्माणमन्त्री लेशी सिंह, कसबाक्षेत्रस्य विधायकः नितेश कुमार सिंह, विधानपार्षदः अनिल ठाकुर, महापौरा विभा कुमारी तथा बहवः जनप्रतिनिधयः, सामाजिककार्यकर्तारः श्रद्धालवश्च सहभागिनः अभवन्। मन्त्रिणा, विधायकेन तथा अन्यैः श्रद्धालुभिः भगवतः रथस्य रज्जुः आकृष्य सेवा समर्पणयोः सन्देशः प्रदत्तः। परम्परानुसारं भगवतः रथस्य रज्ज्वाकर्षणेन श्रद्धालुभ्यः विशेषपुण्यस्य प्राप्तिः भवति तथा जीवनस्य कष्टेभ्यः मुक्तेः मार्गः प्रशस्तः भवति।
भवननिर्माणमन्त्री लेशी सिंह अवदत् यत् पूर्णियानगरस्य एषा रथयात्रा प्रायः चतुःशतवर्षेभ्यः अनवरतं निर्वह्यते तथा अस्य जनपदस्य गौरवशालायाः धार्मिकसांस्कृतिकविरासतायाः प्रतीकम् अस्ति। तया भगवान् जगन्नाथस्य समीपे प्रार्थना कृता यत् तस्य कृपा पूर्णियासहितसमस्तबिहारवासिषु सदा वर्तेत तथा प्रदेशे सुखं, शान्तिः, समृद्धिश्च प्रवर्धेताम्। कसबाविधायकः नितेश कुमार सिंह एतां रथयात्राम् ऐतिहासिकाम् आस्थासम्बद्धां च कथयन् अवदत् यत् एतादृश्यः परम्पराः समाजे प्रेम्णः, एकतायाः तथा सद्भावस्य सुदृढीकरणं कुर्वन्ति।
भगवज्जगन्नाथमन्दिरस्य पूजारी आशुतोषः अवदत् यत् पूर्णियास्थितम् एतन्मन्दिरम् अत्यन्तं प्राचीनम् अस्ति तथा धार्मिकदृष्ट्या विशेषमहत्त्वपूर्णम् अस्ति। जगन्नाथपुरीपरम्परानुसारम् अत्र अपि प्रतिवर्षं भगवतो जगन्नाथस्य, बलभद्रस्य तथा देवी सुभद्रायाः रथयात्रा निर्वह्यते। तेन उक्तं यत् भगवान् जगन्नाथः भक्तानां पालनकर्ता अस्ति तथा ये श्रद्धालवः शुद्धमनसा तस्य आराधनां कुर्वन्ति तेषां सर्वाः मनोकामनाः पूर्णाः भवन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani