Enter your Email Address to subscribe to our newsletters

बेङ्गलूरुनगरम्, १६ जुलाईमासः (हि.स.)। केन्द्रीय-उपभोक्तृ-कार्य-खाद्य-सार्वजनिक-वितरणमन्त्री प्रह्लादजोशी उक्तवान् यत् केन्द्रसर्वकारस्य महत्त्वाकाङ्क्षिणः ‘एकं राष्ट्रम्, एकः समयः’ इत्यस्य उपक्रमस्य सफल-कार्यान्वयनाय भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य, वैज्ञानिक-औद्योगिक-अनुसन्धान-परिषदः राष्ट्रिय-भौतिक-प्रयोगशालायाः तथा उपभोक्तृ-कार्य-विभागस्य मध्ये सुदृढः समन्वयः अत्यन्तम् आवश्यकः अस्ति। सः अवदत् यत् एषः उपक्रमः देशे यथार्थां, सुरक्षितां, स्थिरां, पूर्णतया स्वदेशीयां च समय-प्रणालीं स्थापयितुं दिशि ऐतिहासिकं पदक्षेपं सिद्ध्यति।
गुरुवासरे बेङ्गलूरुस्थितस्य इसरो-केन्द्रस्य भ्रमणानन्तरं पत्रकारैः सह संवादे केन्द्रीयमन्त्री अवदत् यत् इसरो भारतस्य वैज्ञानिक-क्षमतायाः, प्रौद्योगिकीय-उत्कृष्टतायाः तथा नवोन्मेषस्य प्रतीकः अस्ति। सः अवदत् यत् देशे स्वदेशीय-समय-प्रसारण-प्रणालीं विकसितुं इसरोद्वारा क्रियमाणाः प्रयत्नाः भारतं प्रौद्योगिकीय-आत्मनिर्भरतायाः दिशि नूतन-शिखराणि प्रापयिष्यन्ति। तेन एतत् देशस्य वैज्ञानिक-समुदायस्य गौरवस्य विषयः इति कथितम्।
प्रह्लादजोशी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे इसरो निरन्तरम् अत्याधुनिक-प्रौद्योगिकीनां विकासं करोति तथा च आत्मनिर्भर-भारतस्य सङ्कल्पस्य साकारीकरणे महत्त्वपूर्णां भूमिकां निर्वहति। सः अवदत् यत् विकसित-भारतस्य निर्माणे अन्तरिक्ष-विज्ञानस्य अत्याधुनिक-प्रौद्योगिकीनां च भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति तथा च इसरो अस्यां दिशि अग्रणी-संस्थारूपेण कार्यं करोति।
केन्द्रीयमन्त्री अवदत् यत् प्रिसिजन-टाइम-प्रोटोकॉल प्रौद्योगिक्याः उपयोगेन बेङ्गलूरुस्थित-क्षेत्रीय-सन्दर्भ-मानक-प्रयोगशालायाः तथा चेन्नैस्थित-नेशनल् स्टॉक् एक्स्चेञ्ज इत्येतयोः मध्ये सफलस्य प्रूफ्-ऑफ्-कॉन्सेप्ट् प्रदर्शनं देशस्य समय-समन्वय-प्रणाल्याः विकासस्य दिशि महती उपलब्धिः अस्ति। अनेन भविष्ये स्वदेशीया, विश्वसनीया, अत्यन्तं यथार्थां राष्ट्रिय-समय-प्रणालीं स्थापयितुं मार्गः अधिकं सुदृढः भविष्यति।
सः अवदत् यत् ‘एकं राष्ट्रम्, एकः समयः’ इत्यस्य उपक्रमस्य कार्यान्वयनानन्तरं धनागार:, दूरसञ्चारः, विद्युत्-क्षेत्रम्, रक्षा, परिवहनम्, अंश-विपणिः तथा अन्ये महत्त्वपूर्ण-क्षेत्राणि समानां अत्यन्तं यथार्थां च समय-प्रणालीं प्राप्स्यन्ति। अनेन डिजिटल-आधारभूत-संरचनायाः विश्वसनीयता वर्धिष्यते, साइबर-सुरक्षा सुदृढा भविष्यति, विभिन्न-संस्थानानां मध्ये उत्तमः समन्वयः स्थापितः भविष्यति तथा च राष्ट्रिय-सुरक्षायै प्रौद्योगिकीय-आत्मनिर्भरतायै च नूतनं बलं प्राप्स्यते।
मन्त्री एतस्य महत्त्वाकाङ्क्षिणः परियोजनायाः प्रवर्धने योगदानं ददतां उपभोक्तृ-कार्य-विभागस्य, सीएसआईआर-एनपीएल तथा इसरो-संस्थायाः वैज्ञानिकानां, अभियन्तृणां तथा प्रौद्योगिकी-विशेषज्ञानां प्रशंसां कृत्वा तान् अभिनन्दितवान्। सः अवदत् यत् वैज्ञानिकानां परिश्रमेण समर्पणेन च भारतम् अद्य वैश्विक-स्तरे विज्ञान-प्रौद्योगिकी-क्षेत्रे नूतनं परिचयं निर्माति।
इसरो-भ्रमणस्य समये केन्द्रीयमन्त्री वैज्ञानिकैः अभियन्तृभिः च सह विस्तृतं संवादम् अकरोत्। सः अवदत् यत् भारतस्य अन्तरिक्ष-कार्यक्रमस्य उपलब्धयः विश्वमञ्चे देशस्य प्रतिष्ठां नूतन-शिखरं नीतवन्त्यः। इसरो-संस्थायाः वैज्ञानिकानां समर्पणम्, अनुशासनम्, नवोन्मेषश्च युववंशस्य प्रेरणास्रोतः अस्ति।
प्रह्लादजोशी विश्वासं व्यक्तवान् यत् अग्रिमेषु वर्षेषु इसरो नूतन-प्रौद्योगिकीभिः अन्तरिक्ष-अभियानैश्च देशं अधिकं गौरवान्वितं करिष्यति। सः अवदत् यत् भारतस्य अन्तरिक्ष-कार्यक्रमः केवलं राष्ट्रिय-विकासपर्यन्तं सीमितः नास्ति, अपितु वैश्विक-वैज्ञानिक-समुदायाय अपि महत्त्वपूर्णं योगदानं ददाति तथा विकसित-भारतस्य लक्ष्यस्य प्राप्तौ तस्य भूमिका निर्णायिका भविष्यति।
Hindusthan Samachar / Divya Ranjan