Enter your Email Address to subscribe to our newsletters

नवदेहली, १६ जुलाईमासः (हि.स.)। देहल्याः उपराज्यपालः तरनजीतसिंह-सन्धू गुरुवासरे हौजखास-स्थिते जगन्नाथ-मन्दिरे भगवतः जगन्नाथस्य अष्टचत्वारिंशदुत्तर-वार्षिक-रथयात्रायां सहभागी अभवत्। अस्मिन् अवसरे सांसदः बांसुरी-स्वराजः, विधायकः सतीश-उपाध्यायः, धर्मगुरवः तथा सहस्रशः श्रद्धालवः उपस्थिताः आसन्।
उपराज्यपालेन भगवतः जगन्नाथस्य रथयात्रायाः आयोजकाः एतां पवित्र-परम्परां सफलतया अग्रे नेतुं अभिनन्दिताः। तेन सामाजिक-माध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे उक्तं यत् एषा परम्परा भारतस्य समृद्ध-सांस्कृतिक-आध्यात्मिक-परम्परायाः शाश्वतं प्रतीकम् अस्ति, या भक्त्या, विनयेन तथा निःस्वार्थ-सेवया इत्यादिभिः चिरस्थायि-मूल्यैः वंशान् प्रेरयति।
उपराज्यपालः अवदत् यत् वार्षिकी रथयात्रा, यस्यां भगवान् जगन्नाथः प्रत्येकं भक्तम् अनुग्रहीतुं बहिः आगच्छति, सनातन-धर्मस्य समावेशी-भावनां सुन्दरतया प्रदर्शयति। एषा अस्मान् स्मारयति यत् ईश्वरीया कृपा सर्वासां बाधानां पश्चात् अस्ति। तेन उक्तं यत् ‘छेरा-पहंरा’ इति सम्मानिता परम्परा, यस्यां शासकः अपि भगवतः पुरतः विनयपूर्वकं मार्गं सम्मार्जयति, सेवा-विनय-ईश्वरस्य समक्षे समानतायाश्च सर्वोच्च-आदर्शान् साकारयति।
उपराज्यपालेन अस्मिन् शुभावसरे देहली-नगरस्य जनानां उत्तम-स्वास्थ्यस्य, शान्तेः, समृद्धेः तथा कल्याणस्य प्रार्थना कृता।
सांसदः बांसुरी-स्वराजः अपि सामाजिक-माध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे उक्तवती यत् महाप्रभोः जगन्नाथस्य दिव्या रथयात्रा भारतीय-सनातन-संस्कृतेः, श्रद्धायाः तथा अध्यात्मस्य जीवन्ताभिव्यक्तिः अस्ति। एषः महोत्सवः अस्मभ्यं विनयस्य, सेवायाः, समर्पणस्य, जनसहभागितायाः तथा सामाजिक-समरसतायाः सन्देशं ददाति। शताब्दीभ्यः एषा दिव्या परम्परा कोटिशः श्रद्धालूनां हृदयेषु भक्तिं सञ्चारयन्ती सम्पूर्णां मानवजातिं ऐक्य-सौहार्दयोः सूत्रे संयोजयितुं प्रेरयति।
विधायकः सतीश-उपाध्यायः सामाजिक-माध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे उक्तवान् यत् अद्य हौजखास-इत्यत्र भगवतः जगन्नाथस्य अष्टचत्वारिंशदुत्तर-पावन-रथयात्रायां सहभागी अभवम्। महाप्रभोः पावन-दर्शनं कृत्वा समस्त-देशवासीनां सुखस्य, समृद्धेः, उत्तम-स्वास्थ्यस्य तथा कल्याणस्य प्रार्थना कृता। अस्मिन् अवसरे बाल-श्रद्धालू वरुणः सुप्रिया च रथयात्रायाः सुन्दरीं प्रतिकृतिं समर्प्य स्वस्नेहं श्रद्धां च प्रकटितवन्तौ। अस्मिन् कार्यक्रमे जगन्नाथ-मन्दिरस्य अध्यक्षेन रवि-प्रधानेन सह अनेके स्थानीय-श्रद्धालवः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan