जनतायाः अपेक्षासु आदर्शिता अस्माकं सर्वोच्च प्राथमिकता : मंत्री कृष्णा गौरः
- राज्यमंत्री कृष्णा गौरः 81 लक्षस्य रुप्यकाणां निर्माण कार्याणां कृतं भूमि-पूजनम् भोपालम्, 16 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य पश्चाद्वर्ग तथा अल्पसंख्यककल्याणमन्त्री कृष्णा गौर उक्तवती यत् स्वर्गीय बाबूलाल गौरस्य प्रेरणया गोविन्दपुराक्षेत्रे
भोपाल के गोविंदपुरा क्षेत्र में विकास कार्यों का भूमिपूजन करते हुए राज्यमंत्री कृष्णा गौर


- राज्यमंत्री कृष्णा गौरः 81 लक्षस्य रुप्यकाणां निर्माण कार्याणां कृतं भूमि-पूजनम्

भोपालम्, 16 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य पश्चाद्वर्ग तथा अल्पसंख्यककल्याणमन्त्री कृष्णा गौर उक्तवती यत् स्वर्गीय बाबूलाल गौरस्य प्रेरणया गोविन्दपुराक्षेत्रे जनसेवायाः नवनिर्माणस्य च यः महानभियानः प्रारब्धः आसीत्, सः अद्यापि अविरतगत्या प्रवर्तमानः अस्ति। क्षेत्रस्य सर्वाङ्गीणविकासः तथा नागरिकानाम् आकाङ्क्षापूर्तिः वर्तमानसरकारस्य प्रमुखप्राथमिकतासु अन्तर्भवतः।

राज्यमन्त्री स्वतन्त्रप्रभारयुक्ता कृष्णा गौर गुरुवासरे भोपालस्थितस्य गोविन्दपुराविधानसभाक्षेत्रस्य अन्तर्गतस्य सप्तपञ्चाशत्तमवार्डस्य भूमिपूजनसमारोहे उपस्थितान् सम्बोधयन्ती आसीत्। अस्मिन् अवसरे सा क्षेत्रवासिनां सुखसुविधानां कृते प्रायः एकाशीतिलक्षरूप्यकव्ययेन विविधानां लोककल्याणकारिणां निर्माणकार्याणाम् आधारशिलां न्यधात्। भगतसिंहचतुष्पथात् शक्तिनगरपर्यन्तं मार्गस्य उभयपार्श्वयोः त्रयस्त्रिंशल्लक्षरूप्यकव्ययेन पेवरब्लॉकनिर्माणम्, शक्तिनगरस्य तृतीयक्षेत्रस्थितस्य शिवमन्दिरस्य समीपे श्रद्धालूनां सुविधार्थम् अष्टलक्षरूप्यकव्ययेन मण्डपनिर्माणम् तथा स्थानीययुवानां क्रीडायाः आधुनिकसाधनानां रात्रिकालीनक्रीडासुविधानां च उपलब्ध्यर्थं सुभाषक्रीडाङ्गणे चत्वारिंशल्लक्षरूप्यकव्ययेन अत्याधुनिकप्रकाशव्यवस्थायाः भूमिपूजनं कृतवती।

राज्यमन्त्री कृष्णा गौर उक्तवती यत् क्षेत्रस्य आधारभूतसुविधानां सुदृढीकरणम्, धार्मिकसामाजिकस्थलानां पुनरुत्थानम् तथा क्रीडाप्रतिभानां उन्नतमञ्चप्रदानम् एतत् सर्वं तस्याः विकासनीतेः अनिवार्यः अंशः अस्ति। एतासां परियोजनानां सम्पन्नतया न केवलं नागरिकेभ्यः उच्चस्तरीयाः नागरिकसुविधाः प्राप्स्यन्ति, अपितु युवपीढी अपि स्वक्रीडाप्रतिभां परिष्कर्तुं सकारात्मकं वातावरणम् आधुनिकसाधनानि च प्राप्स्यति।

राज्यमन्त्री कृष्णा गौर निर्माणकार्येषु पारदर्शितायाः उच्चगुणवत्तायाश्च संरक्षणे विशेषं बलम् अददात्। तया अधिकारिणः निर्माणसंस्थाश्च निर्देशिताः यत् सर्वाणि स्वीकृतकार्याणि निर्धारितसमयसीमायाः अन्तर्गतं पूर्णगुणवत्तया सम्पन्नानि क्रियन्ताम्, येन जनसामान्यः तेषां लाभं शीघ्रं प्राप्नुयात्। कार्यक्रमे प्रतापसिंह बैंस, पार्षदा अर्चना परमार, नीरज सिंह, सुरेन्द्र बाडीका, टी आर मिश्रा, अशोक पटेल, सुनील द्विवेदी, दीपक गुप्ता, केवल मिश्रा तथा अन्ये नागरिकाः स्थानीयनिवासिनश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani