Enter your Email Address to subscribe to our newsletters

विदिशा, 16 जुलाईमासः (हि.स.)।
मध्यप्रदेशे मिनीजगन्नाथपुरी इति नाम्ना प्रसिद्धे विदिशाजिलस्य मनोराधाम्नि गुरुवासरे भगवान् जगन्नाथस्य रथयात्रा निर्वाहिता। अत्र भगवान् जगदीशस्वामी ज्येष्ठभ्राता बलभद्रः भगिनी सुभद्रा च द्वाविंशतिपादोन्नते द्विस्तरीयकाष्ठनिर्मितरथे विराजमानाः सन्तः नगरभ्रमणाय निर्गताः। अस्मिन्नवसरे मार्गेषु श्रद्धालूनां महत् जनसमुद्रः समुपस्थितः।
मनोराधाम्नि गुरुवासरे प्रातः वैदिकमन्त्रोच्चारणेन धार्मिकानुष्ठानैश्च सह भगवानः विग्रहाः मन्दिरस्य गर्भगृहात् रथे प्रतिष्ठापिताः। ततः रथयात्रा समग्रग्रामे सञ्चालिता। रथयात्रायां सहभागितां कर्तुं भगवानः दर्शनार्थं च विदिशासहितं समीपवर्तिभ्यः बहुभ्यः जिलाभ्यः लक्षशः श्रद्धालवः समागताः। स्थाने स्थाने श्रद्धालुभिः भगवानः पूजार्चना कृता, आरार्तिका समर्पिता, पुष्पवृष्ट्या च तेषां स्वागतं कृतम्।
मनोराग्रामः नानावर्णदीपमालाभिः, ध्वजपताकाभिः, मनोहरालङ्कारैश्च समलङ्कृतः अस्ति। प्रातः आरब्धा रथयात्रा सायं प्रायः पञ्चवादने जनकपुरीं प्राप्स्यति। तत्र रात्रौ विश्रामानन्तरं परदिने रथः पुनः मन्दिरपरिसरं प्रति नीयते। पुलिसप्रशासनेन अत्र सुदृढाः सुरक्षाव्यवस्थाः कृताः। समग्रक्षेत्रे सीसीटीवीचित्रग्रहणयन्त्रैः निरीक्षणं क्रियते। विदिशातः मनोरापर्यन्तं स्थाने स्थाने जनाः श्रद्धालूनां सेवां कुर्वन्तः दृश्यन्ते। अत्र त्रिदिनात्मकः मेला भविष्यति यस्मिन् लक्षशः श्रद्धालवः समागमिष्यन्ति।
मनोरायाः एषा रथयात्रा द्विशतवर्षेभ्यः प्रवर्तमानां महत्त्वपूर्णां परम्परां वहति। मान्यता अस्ति यत् ओडिशाराज्यस्य जगन्नाथपुरीधाम्नि रथयात्राकाले यदा भगवानः रथः किञ्चित्कालं तिष्ठति तदा शङ्कराचार्यः एषां घोषणां करोति यत् भगवान् मनोराधामम् आगताः। एतस्याः मान्यतायाः आधारेण अत्र उत्सवस्य आरम्भः भवति, यस्मिन् श्रद्धालवः त्रिदिनपर्यन्तं भगवानः दर्शनं कुर्वन्ति।
मान्यता अस्ति यत् प्रायः द्विशतवर्षपूर्वं मनोराग्रामस्य भक्तः मानकचन्द्रः तस्य पत्नी पद्मावती च जगन्नाथपुरीं गतवन्तौ। तयोः भक्त्या प्रसन्नः भगवान् प्रतिवर्षं मनोराग्रामम् आगत्य दर्शनं दास्यामि इति वचनं दत्तवान्। तस्मात् कालात् आरभ्य आषाढशुक्लद्वितीयायां अत्र रथयात्रानिर्वाहस्य परम्परा प्रवर्तते, यस्याः पालनम् अद्यापि श्रद्धया क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani