Enter your Email Address to subscribe to our newsletters



सीहोरनगरम्, १६ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य सीहोर-नगरे परमार-समाजेन गुरुवासरे भगवतः जगदीशस्वामिनः भव्य-रथयात्रा आयोजिता, यस्यां बहुसंख्यकाः नागरिकाः सहभागिनः अभवन्। राजस्वमन्त्री करणसिंह-वर्मा तथा उच्चशिक्षामन्त्री इन्दरसिंह-परमारः अपि भगवतः जगदीशस्वामिनः रथयात्रायां सहभागी अभवताम्।
धर्मः अस्मान् सत्पथे प्रेरयति : मन्त्री वर्मा
अस्मिन् अवसरे राजस्वमन्त्री करणसिंह-वर्मा अवदत् यत् भगवतः जगदीशस्वामिनः एषा रथयात्रा केवलम् आस्थायाः प्रतीकं नास्ति, अपितु समाजस्य ऐक्यस्य, परम्परायाः तथा सांस्कृतिक-चेतनायाः अपि प्रकटीकरणम् अस्ति। वयं सर्वे सदा सामाजिक-समरसतां, परिश्रमं धर्ममार्गं च अनुसृतवन्तः। एषा एकता राष्ट्रस्य प्रगतेः दृढमाधारः अस्ति। तेन उक्तं यत् धर्मः अस्मान् सत्पथे चलितुं प्रेरयति तथा एतादृशाः कार्यक्रमाः नवीन-वंशं स्वपरम्पराभिः परिचाययन्ति।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः तथा मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य नेतृत्वे सर्वकारः समाजस्य प्रत्येकं वर्गस्य कल्याणाय कार्यं करोति। सर्वकारस्य प्रयत्नः अस्ति यत् समाजे परस्परं सामाजिक-समरसता, सहयोग-भावना तथा भ्रातृत्वम् वर्धेत, येन सर्वे मिलित्वा स्वप्रदेशस्य, स्वजनपदस्य, स्वराज्यस्य राष्ट्रस्य च विकासे सामूहिकं योगदानं दद्यु:।
धार्मिक-सांस्कृतिक-कार्यक्रमाः समाजं संयोजयन्ति : मन्त्री परमारः
उच्चशिक्षामन्त्री इन्दरसिंह-परमारः अवदत् यत् भगवतः जगदीशस्वामिनः रथयात्रा अस्माकं समृद्ध-सांस्कृतिक-परम्परायाः, धार्मिक-श्रद्धायाः तथा सामाजिक-ऐक्यस्य प्रतीकम् अस्ति। एतादृशाः धार्मिक-सांस्कृतिक-कार्यक्रमाः समाजं संयोजयन्ति तथा नवीन-वंशं स्वपरम्पराभिः, संस्कारैः, आध्यात्मिक-मूल्यैश्च परिचाययन्ति। तेन उक्तं यत् समाजस्य उन्नतिः परस्पर-सहयोगेन, सौहार्देन, सेवाभावेन च एव सम्भवति। सर्वैः नागरिकैः सामाजिक-समरसतां संरक्ष्य प्रदेशस्य राष्ट्रस्य च विकासे स्वसक्रिय-सहभागिता प्रदेया।
अस्मिन् अवसरे विधायकः सुदेश-रायः, पूर्व-विधायकः रमेश-सक्सेना, पूर्व-जनपद-पञ्चायत-अध्यक्षः जसपाल-अरोरा, नगरपालिकाध्यक्षः प्रिन्स-राठौरः, पङ्कज-गुप्तः, गौरव-सन्नी-महाजनः, सुदीप-प्रजापतिः, पण्डित-दुर्गाप्रसाद-कटारे, पण्डित-मोहितराम-पाठकः इत्यादयः अनेके जनप्रतिनिधयः, पदाधिकारीणः नागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan