मोदी-सर्वकारस्य द्विधा-प्रौद्योगिकी-क्रान्तिः : भारतस्य लक्ष्यं ४०-लक्ष-कोटि-रूप्यकाणां इलेक्ट्रॉनिक्स-विनिर्माण-विस्तारः
– डॉ. मयङ्क-चतुर्वेदी नवदेहली, १६ जुलाईमासः (हि.स.)। भारतं वैश्विक-इलेक्ट्रॉनिक्स-विनिर्माणस्य तथा सेमीकण्डक्टर-उद्योगस्य नूतनं केन्द्रं कर्तुं प्रधानमन्त्री-नरेन्द्र-मोदिनः नेतृत्वे केन्द्रीय-सर्वकारेण एकस्मिन्नेव काले द्वौ महत्त्वपूर्णौ निर्णयौ
मोदी सरकार के दो फैसलों से मोबाइल और सेमीकंडक्टर सेक्टर में ₹40 लाख करोड़ के प्रोडक्शन का रास्ता साफ हुआ


– डॉ. मयङ्क-चतुर्वेदी

नवदेहली, १६ जुलाईमासः (हि.स.)। भारतं वैश्विक-इलेक्ट्रॉनिक्स-विनिर्माणस्य तथा सेमीकण्डक्टर-उद्योगस्य नूतनं केन्द्रं कर्तुं प्रधानमन्त्री-नरेन्द्र-मोदिनः नेतृत्वे केन्द्रीय-सर्वकारेण एकस्मिन्नेव काले द्वौ महत्त्वपूर्णौ निर्णयौ कृतौ, यौ अग्रिम-वर्षेषु भारतीय-अर्थव्यवस्थायाः कृते क्रीडापरिवर्तक: इव मन्येते। केन्द्रीय-मन्त्रिमण्डलेन ६२,५००-कोटि-रूप्यक-मूल्यायाः चलदूरभाष-विनिर्माण-योजनायाः अनुमोदनं कृतम्, तथा १,२७,५००-कोटि-रूप्यक-मूल्यस्य ‘सेमीकॉन २.०’ अभियानेऽपि अनुमतिः प्रदत्ता। एतेन स्पष्टं सूचितं यत् भारतं वैश्विक-प्रौद्योगिकी-नेतृत्वस्य स्पर्धायां निर्णायिकां भूमिकां निर्वोढुं सज्जम् अस्ति।

वस्तुतः एतयोः योजनयोः उद्देश्यं देशं अभिकल्पनायाम्, अनुसन्धाने, पेटेण्ट-निर्माणे, चिप्-निर्माणे तथा उच्च-प्रौद्योगिकी-विनिर्माणे आत्मनिर्भरं कर्तुम् अस्ति। सर्वकारस्य अनुमानानुसारं केवलं चलदूरभाष-विनिर्माण-योजनया अग्रिम-पञ्चवर्षेषु प्रायः ३९-लक्ष-कोटि-रूप्यकाणां उत्पादनं भविष्यति, निर्याते अभूतपूर्वा वृद्धिः भविष्यति, ६०-सहस्राधिकाः प्रत्यक्ष-रोजगार-अवसराश्च सृज्यन्ते। ‘सेमीकॉन २.०’ तु भारतं तेषां कतिपयानां राष्ट्राणां श्रेण्यां स्थापयिष्यति, ये भविष्यस्य डिजिटल-अर्थव्यवस्थायाः सर्वाधिक-महत्त्वपूर्णां प्रौद्योगिकीं—सेमीकण्डक्टर—निर्मान्ति।

सर्वकारस्य नूतना चलदूरभाष-विनिर्माण-योजना २०२६-२७ तः २०३०-३१ पर्यन्तं प्रवर्तिष्यते। अस्याः अन्तर्गतं पात्र-विक्रयस्य आधारे २.२५ प्रतिशततः ५ प्रतिशत-पर्यन्तं प्रोत्साहनं प्रदास्यते। यदि निर्माणी-संस्थाः प्रमुख-घटकान् देशे एव क्रयन्ति, तर्हि ताभ्यः १.५ प्रतिशतं अतिरिक्त-प्रोत्साहनम् अपि भविष्यति। भारतीय-ब्राण्ड-विकासाय तथा अभिकल्पन-अनुसन्धानयोः निवेशं कुर्वतीभ्यः निर्माणीभ्यः पात्र-विक्रये अतिरिक्तं ३ प्रतिशत-पर्यन्तं प्रोत्साहनस्य अपि व्यवस्था कृता अस्ति।

अस्मिन् विषये प्रधानमन्त्री नरेन्द्र-मोदी पूर्वमेव स्वभाषणेषु स्पष्टतया उक्तवान् यत् भारतं केवलं चलदूरभाष-संयोजन-केन्द्रं न भवेत्, अपितु वैश्विक-स्तरे भारतीय-ब्रांड-इत्येतां भारतीय-प्रौद्योगिकीं च विकसितुं समर्थः भवेत्। तस्मात् एषः निर्णयः तस्यैव दीर्घकालिक-रणनीतेः भागरूपेण दृश्यते।

लघु-उद्योग-भारत्याः पूर्व-राष्ट्रीयाध्यक्षः उद्योगपतिः जितेन्द्र-गुप्तः अवदत् यत् दशकपूर्वं भारतं चलदूरभाषानाम् आयातक-देशः आसीत्, अद्य तु सः विश्वस्य द्वितीया महत्तमा चलदूरभाष-निर्माता अस्ति। अधुना सर्वकारस्य लक्ष्यं सेमीकण्डक्टर-क्षेत्रे भारतस्य सुदृढ-उपस्थातुं सुनिश्चितुं वर्तते। चलदूरभाष-विनिर्माण-योजना तथा ‘सेमीकॉन २.०’ एतस्य दीर्घकालिक-दृष्टेः द्वौ सुदृढ-स्तम्भौ स्तः।

तेन उक्तं यत् यदि एतयोः योजनयोः क्रियान्वयनं निर्धारित-लक्ष्यानुसारं भविष्यति, तर्हि अग्रिम-वर्षेषु भारतं वैश्विक-इलेक्ट्रॉनिक्स-विनिर्माणस्य सर्वाधिक-विश्वसनीय-केन्द्रं भविष्यति। तदतिरिक्तं प्रौद्योगिकी-नवोन्मेषे, चिप्-अभिकल्पने, पेटेण्ट-निर्माणे, रोजगार-सृजने, निर्याते च भारतस्य स्थानं विश्वस्य अग्रणी-अर्थव्यवस्थासु भविष्यति। उद्योग-जगत् एतौ निर्णयौ भारतस्य प्रौद्योगिकी-भविष्यस्य निर्माणे ऐतिहासिक-पदमिति मन्यते।

तेन अपि उक्तं यत् लघु-उद्योगाः कथम् एतयोः योजनयोः लाभं प्राप्नुयुः, इत्यस्य विषये विशेष-प्रयत्नाः अपेक्षिताः। तस्य आशा अस्ति यत् एमपीएमएस तथा ‘सेमीकॉन २.०’ इत्येताभ्यां योजनाभ्यां लघु-उद्योगाः व्यापक-लाभं प्राप्स्यन्ति तथा सहस्रशः नूतन-रोजगार-अवसराः उत्पत्स्यन्ते।

भारतस्य प्रौद्योगिकी-आत्मनिर्भरतायाः मार्गचित्रम्

प्रख्यात-उद्योगपतिः लघु-उद्योग-भारत्याः राष्ट्रीय-महामन्त्री ओमप्रकाश-गुप्तः अवदत्— “मोदी-सर्वकारेण प्रथमवारं उत्पादनम्, अभिकल्पना, अनुसन्धानं च एकत्र संयोज्य नीतिर्निर्मिता। एषा केवलम् उद्योग-प्रोत्साहन-योजना नास्ति, अपितु भारतस्य प्रौद्योगिकी-आत्मनिर्भरतायाः मार्गचित्रम् अस्ति। अस्याः माध्यमेन भारतीय-निर्माण्यः वैश्विक-बाजारे स्वब्राण्डान् प्रतिष्ठापयितुं शक्नुवन्ति, लक्षशः युवभ्यः नूतन-अवसराश्च सृज्यन्ते।”

तेन उक्तं यत् एषा योजना केवलं महोद्योगानां कृते न, अपितु लघु-उद्योगानामपि अत्यन्तं लाभप्रदा अस्ति। यन्त्र-उपकरण-निर्माणम्, इलेक्ट्रॉनिक्स-घटक-निर्माणम्, रसायन-उद्योगः, पुटीकरणम्, अभियान्त्रिकी च इत्यादयः सहस्रशः एमएसएमई-उद्योगाः अस्यां योजने संयोजिष्यन्ते। एतेन लघु-उद्योगानां विकासस्य नूतनानि द्वाराणि उद्घाटिष्यन्ते तथा भारतस्य औद्योगिक-आत्मनिर्भरता सुदृढा भविष्यति।

तेन उक्तं यत् ‘मेक् इन इण्डिया’ इति नीत्याः प्रभावः अद्य विश्वेन दृश्यते। २०१४-१५ तमवर्षस्य अपेक्षया इलेक्ट्रॉनिक्स-विनिर्माणं सप्तगुणं वर्धितम्, निर्यातश्च एकादशगुणः अभवत्। भारतदेश: अद्य विश्वस्य द्वितीयः महत्तमः चलदूरभाष-निर्माता अस्ति, देशे उपयुज्यमानानां ९९.२ प्रतिशत-चलदूरभाषाः देशे एव निर्मीयन्ते। २०२५ तमे वर्षे स्मार्ट-दूरभाषाः भारतस्य सर्वाधिक-निर्यात-उत्पादनरूपेण उदिताः, डीजल् तथा छिन्न-हीरकादीन् पारम्परिक-निर्यात-पदार्थान् अपि अतिक्रान्तवन्तः।

भारतस्य नीतिर्वैश्विक-निवेशकानां विश्वासं वर्धयति

गुजरात-प्रदेशस्य उद्योगपतिः अनिरुद्ध-शर्मा अवदत्— “भारतस्य एषा सिद्धिः वैश्विक-निवेशकानां विश्वासं वर्धयति। नूतना योजना भारतीय-निर्माणीः केवलं उत्पादनात् परं वैश्विक-ब्राण्ड-इत्यस्मिन् दिशि नेष्यति। एतेन भारतस्य निर्यात-क्षमता विदेशी-मुद्रायाः आयश्च उल्लेखनीयतया वर्धिष्यते।”

चलदूरभाष-विनिर्माणेन सह सर्वकारेण यः निर्णयः सर्वाधिक-रणनैतिक-महत्त्वयुक्तः मन्यते, सः ‘सेमीकॉन २.०’ इति। अस्य कृते १,२७,५००-कोटि-रूप्यकाणां विनियोगः निर्धारितः। एषः कार्यक्रमः षट्सु प्रमुख-स्तम्भेषु आधारितः अस्ति—चिप्-अभिकल्पना, यन्त्र-सामग्री-निर्माणम्, नूतन-फैब-संयन्त्राणि, एटीएमपी/ओएसएटी-उद्योगः, अनुसन्धान-विकासः, प्रतिभा-निर्माणं च। सर्वकारस्य उद्देश्यं भारते सम्पूर्णां सेमीकण्डक्टर-मूल्य-शृङ्खलां विकसितुम् अस्ति।

‘सेमीकॉन १.०’ इत्यस्य सफलता नूतन-उत्कर्षस्य आधारः

उल्लेखनीयम् अस्ति यत् पूर्व-सेमीकण्डक्टर-अभियानस्य सकारात्मक-परिणामाः अधुना दृश्यन्ते। अद्यावधि १.६४-लक्ष-कोटि-रूप्यकाधिक-निवेशयुक्ताः द्वादश-विनिर्माण-परियोजनाः अनुमोदिताः। तासु सिलिकॉन-फैब्, सिलिकॉन-कार्बाइड्-फैब, माइक्रो-एलईडी-प्रदर्शन-फैब तथा नव पुटीकरण-एककानि अन्तर्भवन्ति। माइक्रोन्, केन्स् तथा सीजी-सेमी इत्यादयः निर्माणीः वाणिज्यिक-उत्पादनम् आरब्धवन्तः।

तथैव १०५ नवोद्यमाः चिप्-अभिकल्पना-क्षेत्रे कार्यरताः सन्ति तथा ३१५ विश्वविद्यालयेषु प्रायः ६८-सहस्र-छात्राः अत्याधुनिक-चिप्-अभिकल्पनायाः प्रशिक्षणं प्राप्तवन्तः। उद्योगपतिः जितेन्द्र-गुप्तः अवदत्— “भविष्यः तस्य राष्ट्रस्य भविष्यति यस्य समीपे प्रौद्योगिकी आपूर्ति-शृङ्खला च उभे स्तः। ‘सेमीकॉन २.०’ भारतं केवलं चिप-आयातक-देशं न स्थापयिष्यति, अपितु वैश्विक-आपूर्ति-शृङ्खलायाः महत्त्वपूर्णं केन्द्रं करिष्यति।”

राष्ट्रीय-सुरक्षातः कृत्रिम-बुद्धिमत्तापर्यन्तं सर्वेषां क्षेत्राणां लाभः

एचएलबीएस-टेक-प्राइवेट-लिमिटेड इत्यस्य प्रबन्ध-निदेशकः मितेश-लोकवानी अवदत् यत् सेमीकण्डक्टर केवलं चलदूरभाष-उद्योगे न प्रयुज्यन्ते। रक्षा, अन्तरिक्षम्, वाहन-उद्योगः, दूरसञ्चारः, कृत्रिम-बुद्धिमत्ता, ड्रोन-प्रणाली, स्मार्ट्-मीटर्, चिकित्सा-उपकरणानि, औद्योगिक-स्वचालनम् इत्यादिषु आधुनिक-क्षेत्रेषु चिप-अत्यावश्यकाः सन्ति। अतः सर्वकारेण विनिर्माणेन सह भारतीय-बौद्धिक-सम्पदा, चिप्-अभिकल्पना तथा अनुसन्धाने विशेषं बलं प्रदत्तम्।

तेन उक्तम्— “प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे केन्द्रीय-मन्त्रिमण्डलेन ‘सेमीकॉन २.०’ (१,२७,५००-कोटि-रूप्यकाणि) तथा चलदूरभाष-विनिर्माण-योजना (६२,५००-कोटि-रूप्यकाणि) अनुमोदिता। एषः निर्णयः भारतस्य इलेक्ट्रॉनिक्स-सेमीकण्डक्टर-परि-तन्त्रस्य कृते ऐतिहासिकः अस्ति। एमपीएमएस-योजनायां गृह-घटक-क्रये १.५ प्रतिशत-अतिरिक्त-प्रोत्साहनं तथा अभिकल्पन-अनुसन्धानयोः निवेशे ३ प्रतिशत-अतिरिक्त-प्रोत्साहनं लभ्यते। एते उपायाः उद्योगं केवल-संयोजनात् अग्रे नीत्वा मूल्यवर्धित-विनिर्माणस्य भारतीय-पेटेण्ट-ब्राण्ड-निर्माणस्य च दिशि प्रेरयन्ति।”

सः पुनरपि अवदत्— “‘सेमीकॉन २.०’ इत्यस्य षट्-स्तम्भाः—चिप्-अभिकल्पना, यन्त्र-सामग्री-रसायन-निर्माणम्, फैब्-संयन्त्राणि, एटीएमपी/ओएसएटी-पुटीकरणम्, अनुसन्धान-विकासः, कौशल-विकासश्च—मध्यप्रदेशादिषु उद्भवमान-इलेक्ट्रॉनिक्स-केन्द्रेषु निवेशस्य रोजगारस्य च नूतनान् अवसरान् सृक्ष्यन्ति। पञ्चवर्षेषु ३९-लक्ष-कोटि-रूप्यक-उत्पादनस्य ६०-सहस्र-प्रत्यक्ष-रोजगारस्य च लक्ष्यं ‘आत्मनिर्भर-भारत’-संकल्पं सुदृढं करिष्यति।”

तेन अन्ते उक्तं यत् यदि भारतः चिप्-अभिकल्पनायां बौद्धिक-सम्पदा-निर्माणे च वैश्विक-नेतृत्वं प्राप्स्यति, तर्हि सः केवलं विनिर्माण-केन्द्रं न भविष्यति, अपितु नवोन्मेष-केन्द्ररूपेण प्रतिष्ठां प्राप्स्यति। भोपाल-नगरस्य सूचना-प्रौद्योगिकी-उद्यानस्थितः एचएलबीएस-टेक् तथा सम्पूर्णः स्थानीय-एमएसएमई-उद्योगः एतयोः योजनयोः लाभं गृहीत्वा भारतस्य प्रौद्योगिकी-स्वावलम्बनाय योगदानं दातुं प्रतिबद्धः अस्ति।

उद्योग-जगतः वरिष्ठ-प्रतिनिधिः उमा-शर्मा अपि अवदत्— “अद्य प्रौद्योगिकी-आत्मनिर्भरता एव आर्थिक-आत्म-निर्भरतायाः प्रमुखा: शर्ता: अभवन्। मोदी-सर्वकारस्य एते निर्णयाः भारतं वैश्विक-प्रौद्योगिकी-स्पर्धायां नूतनं परिचयं दास्यन्ति तथा विशेषतः महिलाभ्यः युवभ्यश्च उच्च-गुणवत्तायुक्त-रोजगार-अवसरान् वर्धयिष्यन्ति।”

Hindusthan Samachar / Divya Ranjan