Enter your Email Address to subscribe to our newsletters


– अद्य आरभ्यते देशस्य प्रथमया हाइड्रोजन-रेलयानसेवया हरित-परिवहनस्य शुभारम्भः
चण्डीगढनगरम्, १६ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १७ जुलाई-दिने हरियाणा-राज्यस्य अष्टादशम-प्रवासाय आगच्छति। अस्मिन् प्रवासे हरियाणा-राज्यस्य दश जनपदानां कृते विविधाः विकास-परियोजनाः प्रदास्यन्ते। प्रधानमन्त्री १२,४७० कोटिरूप्यकाधिक-मूल्यानां राष्ट्रीय-राजमार्ग-स्वास्थ्य-रेलमार्ग-सांस्कृतिक-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति।
देशस्य प्रथमं हाइड्रोजन-रेलयानम् आरभ्य आधुनिक-रेलस्थानकानि, चिकित्सा-महाविद्यालयाः, उच्चीकृत-रेलमार्गः, द्रुतमार्गाः तथा सिक्ख-धरोहर-केन्द्रं यावत् अनेकाः महत्त्वाकाङ्क्षिण्यः परियोजनाः अस्य प्रवासस्य वैशिष्ट्यं वर्धयन्ति। राजनैतिकदृष्ट्यापि अयं कार्यक्रमः महत्त्वपूर्णः मन्यते। यासां परियोजनानां उद्घाटनं शिलान्यासं च भविष्यति, तासां प्रत्यक्षः प्रभावः सोनीपत- अम्बाला-कुरुक्षेत्र-हिसार-सिरसा-भिवानी-महेन्द्रगढ-लोकसभा-क्षेत्रेषु भविष्यति। जीन्द-सोनीपत-अम्बाला-झज्जर-पञ्चकुला-कुरुक्षेत्र-हिसार-हांसी-भिवानी-महेन्द्रगढ-जनपदाः अपि एताभिः प्रत्यक्षतया सम्बद्धाः भविष्यन्ति।
प्रधानमन्त्री अमृतभारत-स्थानक-योजनायाः अन्तर्गतं निर्मितानि एकादश आधुनिक-रेलस्थानकानि राष्ट्राय समर्पयिष्यति। तेषु हरियाणायाः नरवाना तथा कालका, पञ्जाबस्य साहिबजादा-अजीतसिंह-नगरं, आनन्दपुर-साहिबः तथा हिमाचलप्रदेशस्य अम्ब-अन्दौरा-स्थानकं समाविष्टानि सन्ति। आधुनिक-प्रतीक्षागृहैः, उद्वाहकयन्त्रैः, आरोहण-पथैः, दिव्याङ्गजनानुकूल-सुविधाभिः, वाहन-स्थापन-स्थलैः तथा उन्नत-यात्रि-सुविधाभिः युक्तानि एतानि स्थानकानि यात्रिभ्यः नवीनम् अनुभवं प्रदास्यन्ति।
एतस्यैव क्रमस्य अन्तर्गतं प्रायः ४४७ कोटिरूप्यक-व्ययेन निर्मितस्य कुरुक्षेत्रस्य ५.९ किलोमीटर-दीर्घः उच्चीकृत-रेलमार्गः अपि राष्ट्राय समर्पितः भविष्यति। अनेन नगरस्य पञ्च प्रमुख-रेलमार्ग-द्वारेषु जायमानात् यातायात-सङ्कटात् स्थायी सौविध्यं प्राप्तुं शक्यते।प्रधानमन्त्री जीन्द-नगरात् आभासीय-माध्यमेन नारनौल-स्थितस्य महर्षि-च्यवन-चिकित्सा-महाविद्यालयस्य तथा भिवानी-चिकित्सा-महाविद्यालयस्य उद्घाटनं करिष्यति। मार्ग-परिवहन-क्षेत्रे काला-अम्ब-हरित-क्षेत्र-चतुर्मार्ग-परिसरः, दिल्ली-अमृतसर-कटरा-द्रुतमार्गः, जीन्द-गोहाना-राष्ट्रीय-राज-मार्गः, हांसी-बरवाला-चतुर्मार्ग-परियोजना तथा बीकानेर-सिवानी-सोनीपत-मार्ग-परियोजनायाः विकासः अपि नूतनगतिं प्राप्स्यति। एताभिः परियोजनाभिः औद्योगिक-क्रियाकलापानां वृद्धिः, यात्राकालस्य न्यूनीकरणं तथा मालवाहनस्य सुगमता अपेक्ष्यते।
कुरुक्षेत्रस्य उमरी-ग्रामे प्रायः १२४ कोटिरूप्यक-व्ययेन निर्मीयमाणस्य प्रदेशस्य प्रथमस्य सिक्ख-सङ्ग्रहालयस्य तथा धरोहर-केन्द्रस्य आधारशिलां अपि प्रधानमन्त्री स्थापयिष्यति। हरियाणा-राज्येन सह सिक्ख-गुरूणां ऐतिहासिक-सम्बन्धान् आधुनिकरूपेण प्रस्तौति एषा परियोजना धार्मिक-सांस्कृतिक-पर्यटनस्य नूतनम् आकर्षणं भविष्यति।
Hindusthan Samachar / Divya Ranjan