रक्तांचल सीजन थ्री इत्यस्य विज्ञापनाय समायाताःकलाकाराः विश्वनाथमंदिरे कृतवन्तो दर्शनपूजनम्
वाराणसी, 16 जुलाईमासः (हि. स.)।वाराणस्यां गुरुवासरे श्रीकाशीविश्वनाथमन्दिरे रक्ताञ्चल इति वेबशृङ्खलायाः कलाकारौ निकितिन धीर तथा क्रान्ति प्रकाश झा दर्शनपूजनं कृतवन्तौ। वेबशृङ्खलायाः प्रचारार्थम् उभावपि कलाकारौ पूजनं कृत्वा विश्वनाथमन्दिरात् निर्गत्
श्रीकाशी विश्वनाथ मंदिर में दर्शन के बाद वेब सीरीज कलाकार


वाराणसी, 16 जुलाईमासः (हि. स.)।वाराणस्यां गुरुवासरे श्रीकाशीविश्वनाथमन्दिरे रक्ताञ्चल इति वेबशृङ्खलायाः कलाकारौ निकितिन धीर तथा क्रान्ति प्रकाश झा दर्शनपूजनं कृतवन्तौ। वेबशृङ्खलायाः प्रचारार्थम् उभावपि कलाकारौ पूजनं कृत्वा विश्वनाथमन्दिरात् निर्गत्य स्वप्रशंसकैः सह छायाचित्राणि गृहीतवन्तौ तथा वेबशृङ्खलायाः तृतीयं सत्रं द्रष्टुं सर्वान् प्रार्थितवन्तौ।

कलाकारौ निकितिन धीर तथा क्रान्ति प्रकाश झा उक्तवन्तौ यत् रक्ताञ्चल इति वेबशृङ्खलायाः तृतीयं सत्रम् आगच्छति। अद्यावधि प्रथमद्वयोः सत्रयोः दर्शकैः पूर्वाञ्चलप्रदेशे ठेकावर्चस्वसम्बद्धयोः द्वयोः गणयोः संघर्षः दृष्टः। दर्शकैः उभे सत्रे अत्यन्तं समादृतौ। तृतीये सत्रे उभयोः गणयोः राजनैतिकप्रभावस्थापनार्थं स्पर्धा तथा नूतनानि रहस्योद्घाटनानि द्रष्टुं लभ्यन्ते, येन रक्ताञ्चलस्य तृतीयसत्रस्य दर्शनम् अधिकं रोचकम् भविष्यति।

ज्ञातव्यं यत् रक्ताञ्चल इति वेबशृङ्खलायाः निर्देशनं ऋतम श्रीवास्तवेन कृतम्। अस्याः कथां सिद्धार्थ मिश्रेण लिखिता। जार मोशन पिक्चर्स संस्थया निर्मिते अस्मिन् तृतीयसत्रे क्रान्ति प्रकाश झा, निकितिन धीर, करण पटेल, माही गिल, राजेश कुमार तथा विक्रम कोचर प्रमुखभूमिकासु दृश्यन्ते।

Hindusthan Samachar / Dheeraj Maithani