पुत्रयोः स्मृत्यर्थम् वृद्धया महिलया श्रीकाशीविश्वनाथमन्दिराय त्रिकोटिरूप्यकाणां गुप्तदानम्
वाराणसीनगरम्, १६ जुलाईमासः (हि.स.)। स्वपतेः तथा उभयोः पुत्रयोः निधनानन्तरं सांसारिकजीवनात् विरक्ता तमिलनाडु-राज्यस्य अशीतिवर्षीया एका महिला धार्मिक-जनकल्याणकार्याणां कृते श्रीकाशीविश्वनाथमन्दिराय त्रिकोटि-रूप्यकाणां गुप्तदानं कृतवती। तस्याः इच्छाया
प्रतीक


वाराणसीनगरम्, १६ जुलाईमासः (हि.स.)। स्वपतेः तथा उभयोः पुत्रयोः निधनानन्तरं सांसारिकजीवनात् विरक्ता तमिलनाडु-राज्यस्य अशीतिवर्षीया एका महिला धार्मिक-जनकल्याणकार्याणां कृते श्रीकाशीविश्वनाथमन्दिराय त्रिकोटि-रूप्यकाणां गुप्तदानं कृतवती। तस्याः इच्छायाः सम्मानं कुर्वन् मन्दिरप्रशासनं तस्याः परिचयं पूर्णतया गोपनीयं धारयति।

मन्दिरप्रशासनस्य अनुसारं महिलया स्वदिवङ्गतयोः पुत्रयोः स्मृत्यर्थं द्विकोटिरूप्यकाणि तथा मन्दिरस्य अन्नक्षेत्राय एककोटिरूप्यकाणां धनाहरणपत्रं मन्दिरन्यासाय समर्पितम्। एतत् अद्यावधि मन्दिराय प्राप्तं बृहत्तमं व्यक्तिगतदानं मन्यते। अस्मात् पूर्वम् अम्बानी-कुटुम्बेन मन्दिराय सार्धद्विकोटिरूप्यकाणां दानं प्रदत्तम् आसीत्।

महिलया वाराणसी-मण्डलस्य आयुक्ताय एस.राजलिङ्गम् महोदयाय विद्युत्पत्रेण मन्दिरे दानं दातुम् इच्छां प्रकटिता तथा तेन सह व्यक्तिगत-साक्षात्कारस्य अनुरोधः कृतः। ततः अनन्तरं अधिकारिभिः तया सह सम्पर्कः स्थापितः। महिलया आरम्भादेव स्वपरिचयस्य गोपनीयतां रक्षितुम् आग्रहः कृतः।

सा स्वप्रबन्धकेन सह १२ जुलाईमासे मण्डलायुक्तं मिलित्वा त्रिकोटिरूप्यकाणां द्वौ धनादेशौ तस्मै समर्पितवती। एतदतिरिक्तं सा पञ्च पृथक् धनादेशपत्राणि, प्रत्येकं पञ्चविंशति-सहस्ररूप्यकमूल्यानि, अपि दत्तवती तथा तेषां धनराश्या प्रतिवर्षं श्रीकाशी-विश्वनाथमन्दिरे रुद्राभिषेकः क्रियतामिति स्वेच्छां प्रकटितवती। दानस्य औपचारिकताः सम्पन्नाः कृत्वा सा विधिवत् श्रीकाशीविश्वनाथमन्दिरे दर्शन-पूजनं विना प्रचारप्रसारं वाराणस्याः प्रत्यगच्छत्।

मन्दिरन्यासस्य अनुसारं गतद्विवर्षयोः केवलम् अन्नक्षेत्रार्थमेव प्रायः द्विकोटि-रूप्यकाणां दानं प्राप्तम्। वर्षे २०२६ पञ्चाशत्सहस्ररूप्यकाधिकं दानं दत्तवन्तः षोडश श्रद्धालवः अन्नक्षेत्राय समग्रतया १.१४ कोटिरूप्यकाणां योगदानं कृतवन्तः। काशीविश्वनाथधाम-परिसरस्य निर्माणात् पूर्वं प्रतिवर्षं मन्दिराय प्रायः विंशतिः कोटिरूप्यकाणां दानं लभ्यते स्म, यत् अधुना वर्धित्वा प्रायः चतुरशीतिः कोटिरूप्यकाणि अभवत्। वर्षे २०२२ दक्षिणभारतीयेन एकेन श्रद्धालुना मन्दिराय षष्टिकिलोग्राम-परिमितं सुवर्णमपि दत्तम्।

Hindusthan Samachar / Divya Ranjan