योगी सर्वकारे ओबीसी छात्रेभ्यो मिलितः शिक्षायाःदृढसहयोगः
अन्यपश्चाद्वर्गीयविद्यार्थिनां कृते छात्रावासयोजना वरदानेव सिद्धा, आर्थिककठिनतायाः समाधानमलभत अन्यपश्चाद्वर्गीयविद्यार्थिनां कृते प्रदेशे १०२ छात्रावासाः, तेषु छात्रीणां कृते ४३ छात्रावासाः सञ्चालिताः लखनऊ, १६ जुलाईमासः (हिस)। मुख्यमन्त्रिणः योगि
मुख्यमंत्री योगी आदित्यनाथ


अन्यपश्चाद्वर्गीयविद्यार्थिनां कृते छात्रावासयोजना वरदानेव सिद्धा, आर्थिककठिनतायाः समाधानमलभत

अन्यपश्चाद्वर्गीयविद्यार्थिनां कृते प्रदेशे १०२ छात्रावासाः, तेषु छात्रीणां कृते ४३ छात्रावासाः सञ्चालिताः

लखनऊ, १६ जुलाईमासः (हिस)। मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारः अन्यपश्चाद्वर्गीयविद्यार्थिनां गुणवत्तापूर्णशिक्षायै उज्ज्वलभविष्याय च निरन्तरं प्रभाविकानि पदानि गृह्णाति। आर्थिकदृष्ट्या दुर्बलपरिवारेषु जातानां छात्रच्छात्राणाम् उच्चशिक्षया सह संयोजनार्थं सञ्चाल्यमाना छात्रावासनिर्माणयोजना प्रदेशस्य शिक्षाक्षेत्रे महत्त्वपूर्णाधाररूपेण अभवत्। वित्तीयवर्षे २०२५ २६ मध्ये समग्रतया २०१३ छात्रछात्राः एतेषु छात्रावासेषु निवसन्तः स्वीयां शिक्षाम् अधिगतवन्तः। एषा व्यवस्था तेषां सहस्रशः परिवाराणां कृते महान् उपकारः अभवत्, येषां कृते स्वसन्ततेः बहिः निवासेन अध्ययनव्ययः आर्थिकदृष्ट्या कठिनः भवति।

कुले १०२ छात्रावासेषु छात्रीणां कृते ४३ छात्रावासाः

प्रदेशे सम्प्रति अन्यपश्चाद्वर्गीयविद्यार्थिनां कृते १०२ छात्रावासाः सञ्चालिताः सन्ति। तेषु ५९ छात्रावासाः छात्राणां कृते तथा ४३ छात्रावासाः छात्रीणां कृते सन्ति। एतेषु छात्रावासेषु प्रायः ५४०० विद्यार्थिनां निवासक्षमता विद्यते। छात्रावासनिर्माणयोजनायाः प्रमुखोद्देशः अन्यपश्चाद्वर्गीयानां निर्धनविद्यार्थिनाम् आवासीयसुविधां प्रदातुम् अस्ति, येन आर्थिकाभावः तेषां शिक्षायाः मार्गे विघ्नरूपेण न भवेत्। अस्याः योजनायाः अन्तर्गतं छात्रावासाः राजकीयशैक्षणिकसंस्थानानां परिसरेषु निर्मीयन्ते, येन विद्यार्थिभ्यः शिक्षया सह अनुशासितं सुरक्षितं च वातावरणं लभ्यते।

वर्षेभ्यः प्राचीनेषु छात्रावासेषु अनुरक्षणकार्यं क्रियते

योगीसरकारेण छात्रावासानां सङ्ख्याया वर्धनेन सह तेषां गुणवत्तायाः सुविधासु च विशेषप्राधान्यम् अर्पितम्। विद्यार्थिभ्यः उत्तमाम् आवासीयसुविधां प्रदातुम् वित्तीयवर्षात् २०२३ २४ आरभ्य छात्रावासानुरक्षणयोजना प्रारब्धा। अस्य निर्णयस्य फलस्वरूपं वर्षेभ्यः प्राचीनानां छात्रावासानाम् अनुरक्षणं मरम्मतकार्यं च सुव्यवस्थितरूपेण आरब्धम्। अनुरक्षणकार्येषु पारदर्शिता गुणवत्ताच सुनिश्चितुं उत्तरप्रदेशशासनस्य विशेषसचिवस्य पश्चाद्वर्गकल्याणविभागस्य अध्यक्षतायां समितिः गठिता।

अष्टसु छात्रावासेषु मरम्मतकार्यं सम्पन्नम्

अस्यां समितौ निदेशकः पश्चाद्वर्गकल्याणविभागस्य सहिताः विभागस्य वरिष्ठाधिकारिणः सदस्याः सन्ति। ते प्रत्येकस्य प्रस्तावस्य तकनीकी वित्तीयपरीक्षणं कृत्वा आवश्यकस्वीकृतिं प्रयच्छन्ति। वित्तीयवर्षे २०२५ २६ अनुरक्षणार्थं १० छात्रावासाः चयनिताः आसन्। तेषु ८ छात्रावासानां मरम्मतकार्यं सम्पन्नम्, अवशिष्टेषु छात्रावासेषु कार्यं प्रगतौ वर्तते। वित्तीयवर्षे २०२६ २७ कृते प्रदेशस्य विविधजनपदेषु सञ्चालितानां छात्रावासानां सर्वेक्षणं कृत्वा ८ छात्रावासाः प्राथमिकतया अनुरक्षणमरम्मतकार्याय चिह्निताः सन्ति।

निर्धनविद्यार्थिनां कृते उच्चशिक्षायाः दृढाधाररूपा योजना

एवं आवासीयसुविधानां माध्यमेन सहस्रशः छात्रछात्राः स्वसप्नानां साकारतां प्रति अग्रे गच्छन्ति तथा प्रदेशस्य विकासयात्रायां सहभागिनः भवन्ति। पश्चाद्वर्गकल्याणविभागस्य निदेशकः उमेशप्रतापसिंहः अवदत् यत् एषा योजना आर्थिकदृष्ट्या दुर्बलपरिवाराणां विद्यार्थिनां कृते उच्चशिक्षायाः दृढाधाररूपेण सिद्धा भवति। अस्याः योजनायाः उद्देश्यं निर्धनविद्यार्थिभ्यः सुरक्षितां गुणवत्तापूर्णाम् आवासीयसुविधां प्रदातुम् अस्ति, येन आर्थिकाभावः तेषां शिक्षायाः मार्गे विघ्नं न भवेत्। एतस्यैव ध्येयस्य अनुसारेण छात्रावासाः राजकीयशैक्षणिकसंस्थानानां परिसरेषु निर्मीयन्ते, येन छात्रच्छात्राभ्यः अध्ययनाय अनुकूलं वातावरणं सुलभं भवति।

हिन्दुस्थान समाचार / Dheeraj Maithani