प्रधानमंत्रिणो मोदिनो नेतृत्वे नूतनं कीर्तिमानम् अंकयति भारतम् : मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री डॉ. यादवः देशस्य प्रथमाय प्रायवेट लांचिंग इत्यस्मै अददाद्वर्धापनानि भोपालम्, 18 जुलाईमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहन यादवः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः कुशलनेतृत्वे भारतम् अन्तरिक्षविज्ञानप्रौद्योगिकीक्ष
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


- मुख्यमंत्री डॉ. यादवः देशस्य प्रथमाय प्रायवेट लांचिंग इत्यस्मै अददाद्वर्धापनानि

भोपालम्, 18 जुलाईमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहन यादवः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः कुशलनेतृत्वे भारतम् अन्तरिक्षविज्ञानप्रौद्योगिकीक्षेत्रे नूतनाविष्कारैः सह निरन्तरं नूतनकीर्तिमानानि स्थापयति।

मुख्यमन्त्री डा यादवः स्वसन्देशे अवदत् यत् शनिवासरस्य प्रातःकाले स्काई रूट एयरोस्पेस इति संस्थया निर्मितस्य देशस्य प्रथमस्य निजीप्रक्षेपणयानस्य विक्रम १ इत्यस्य प्रथमम् आर्बिटल प्रक्षेपणं सफलतया सम्पन्नम्। एषा उपलब्धिः नूतनभारतस्य दृढसंकल्पस्य, युवा वैज्ञानिकानां नूतनाविष्काराणां, देशस्य आत्मनिर्भरतायाः च प्रतीका अस्ति।

मुख्यमन्त्री डा यादवः अन्तरिक्षविज्ञानक्षेत्रे अस्याः अभूतपूर्वायाः उपलब्धेः कृते अन्तरिक्षवैज्ञानिकेभ्यः शोधकर्तृभ्यश्च हार्दिकशुभकामनाः प्रादात्। सः अवदत् यत् एषा सफलता वैश्विके अन्तरिक्षजगति भारतस्य प्रतिष्ठां अधिकां वर्धयिष्यति। अस्मात् प्रथमात् निजीप्रक्षेपणयानात् विक्रम १ इत्यस्मात् यथावश्यकम् अन्तरिक्षप्रक्षेपणसेवानां प्रोत्साहनं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani