उत्तरप्रदेश-राज्य-आपदा-प्रबन्धन-प्राधिकरणस्य नवीन-मुख्यालयस्य रविवासरे लोकार्पणं करिष्यति मुख्यमन्त्री योगी
लखनऊनगरम्, १८ जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः १९ जुलाईमासे रविवासरे द्विशत-कोटि-रूप्यकेभ्यः अधिक-व्ययेन निर्मितस्य उत्तरप्रदेश-राज्य-आपदा-प्रबन्धन-प्राधिकरणस्य नवीन-मुख्यालय-भवनस्य लोकार्पणं करिष्यति। एतत् नवीनं मुख्यालय-भवनम् आधुनि
आपदा प्रबंधन का मुख्यालय


लखनऊनगरम्, १८ जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः १९ जुलाईमासे रविवासरे द्विशत-कोटि-रूप्यकेभ्यः अधिक-व्ययेन निर्मितस्य उत्तरप्रदेश-राज्य-आपदा-प्रबन्धन-प्राधिकरणस्य नवीन-मुख्यालय-भवनस्य लोकार्पणं करिष्यति। एतत् नवीनं मुख्यालय-भवनम् आधुनिक-सुविधाभिः सुसज्जितम् अत्याधुनिकम् आपदा-प्रबन्धन-केन्द्ररूपेण विकसितम् अस्ति। अस्मिन् चतुर्विंशतिहोरा-पर्यन्तं निरन्तरं सञ्चालितम् अत्याधुनिकं राज्य-आपत्कालीन-सञ्चालन-केन्द्रं स्थापितम् अस्ति। भवने द्विशताधिक-जन-क्षमतायुक्तम् आधुनिकम् सभागारम्, कक्षाः, व्याख्यान-कक्षः, छात्रावासः तथा ग्रन्थालयस्य सुविधाः अपि उपलब्धाः सन्ति।

एतदतिरिक्तं राज्यस्य आपदा-प्रबन्धन-व्यवस्थां सुदृढां कर्तुं डिजिटल-कमाण्ड-कण्ट्रोल-समन्वय-केन्द्रमपि स्थापितम् अस्ति। लखनऊनगरे बलिदानी-पथस्थितस्य डायल-११२-मुख्यालयस्य समीपे स्थितस्य राज्य-आपदा-प्रबन्धन-प्राधिकरणस्य नवीन-मुख्यालय-भवनस्य लोकार्पणं भविष्यति। अस्मिन् कार्यक्रमे वित्त-संसदीय-कार्य-मन्त्री सुरेश-खन्ना, राजस्व-राज्यमन्त्री सुरेन्द्र-दिलेरः, लखनऊ-महापौरा सुषमा-खर्कवालः तथा सरोजनीनगर-क्षेत्रस्य विधायकः राजेश्वर-सिंहः इत्येते च उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan