संघः कदापि सूर्यास्तं न पश्यति, सः सदा चिरयुवा एव तिष्ठति - प्रो. राकेश-सिन्हा
गुवाहाटीनगरम्, १८ जुलाईमासः (हि.स.)। राज्यसभायाः पूर्वसांसदः, चिन्तकः लेखकश्च प्रो. राकेश-सिन्हा शनिवासरे अवदत् यत् राष्ट्रिय-स्वयंसेवक-संघः तादृशं संगठनम् अस्ति, यत् कदापि सूर्यास्तं न पश्यति, अपितु सदा सूर्योदयेन सह उपस्थितः भवति। तेन उक्तं यत् स
Former Rajya Sabha MP Prof. Rakesh Sinha on Saturday in a Program at Keshav Dham in Guwahati.


गुवाहाटीनगरम्, १८ जुलाईमासः (हि.स.)। राज्यसभायाः पूर्वसांसदः, चिन्तकः लेखकश्च प्रो. राकेश-सिन्हा शनिवासरे अवदत् यत् राष्ट्रिय-स्वयंसेवक-संघः तादृशं संगठनम् अस्ति, यत् कदापि सूर्यास्तं न पश्यति, अपितु सदा सूर्योदयेन सह उपस्थितः भवति। तेन उक्तं यत् संघः कदापि वृद्धः न भवति, अपितु कालानुगुणं स्वयम् निरन्तरं नवीकरोति तथा सदा चिरयुवा एव तिष्ठति।

गुवाहाटीनगरस्य पलटन-बाजार-स्थिते केशव-धाम्नः शङ्करदेव-सभागारे पूर्वोत्तर-भारत-अध्ययन-समूहेन आयोजितायां वैचारिक-प्रबोधन-कार्यशालायाः अन्तर्गतं विशेष-व्याख्यान-कार्यक्रमे प्रो. सिन्हा एतद् उक्तवान्। कार्यक्रमस्य विषयः ‘परम-पूजनीयः डॉ. केशव-बलिराम-हेडगेवारः : संघ-कार्यस्य शताब्दी-प्रेरणा’ इति आसीत्। अस्मिन् कार्यक्रमे बहवः शिक्षाविदः, शोधार्थिनः, स्वयंसेवकाः, विविध-सामाजिक-सङ्घटनानां प्रतिनिधयश्च उपस्थिताः आसन्।

‘अण्डरस्टैण्डिङ्ग् आरएसएस एण्ड् डॉ. के. बी. हेडगेवार:’ इति ग्रन्थस्य लेखकः प्रो. राकेश-सिन्हा स्वव्याख्याने राष्ट्रिय-स्वयंसेवक-संघस्य संस्थापकस्य डॉ. केशव-बलिराम-हेडगेवारस्य जीवनं, व्यक्तित्वं, सङ्घटनात्मक-दृष्टिं विचारांश्च विस्तरेण निरूपितवान्। तेन उक्तं यत् डॉ. हेडगेवारः व्यक्तिपूजायाः व्यक्तिवादस्य च विरोधी आसीत्। तस्य मतम् आसीत् यत् कस्यापि सङ्घटनस्य वास्तविक-शक्तिः तस्य कार्यकर्तॄणां समान-सहभागितायाम्, अनुशासने, समर्पणे च निहिता भवति। एतस्यैव चिन्तनस्य अनुरूपं तेन संघस्य कार्यपद्धतिः विकसिताऽभवत्, यस्यां सर्वेभ्यः स्वयंसेवकेभ्यः समानः अवसरः समानः सम्मानश्च प्रदीयते।

प्रो. सिन्हा अवदत् यत् डॉ. हेडगेवारस्य प्रत्येकं सङ्घटनात्मक-प्रयोगस्य मूल-उद्देश्यं समाजस्य संगठनं मानव-कल्याणं च आसीत्। तेन उक्तं यत् जाति-भाषा-प्रदेश-सङ्कीर्ण-परिचयादीनाम् आधारेण समाजं विभाजयन्त्यः प्रवृत्तयः राष्ट्रिय-एकतायाः प्रमुखाः समस्या: सन्ति। यावत् समाजः एतेभ्यः विभाजन-प्रवृत्तिभ्यः उपरि उत्थाय स्वं राष्ट्ररूपेण न पश्यति, तावत् सशक्तस्य सु-सङ्गठितस्य च भारतस्य निर्माणं न सम्भवति।

राकेश-सिन्हा सर्वान् नागरिकान् जाति-अस्पृश्यता-प्रादेशिकता-भाषा-भेदभावादि-सङ्कीर्णताभ्यः उपरि उत्थाय स्वान् भारतमातुः सन्तानरूपेण मन्यमानान् सामाजिक-समरसतायै राष्ट्रिय-एकतायै च कार्यं कर्तुम् आहूतवान्। तेन उक्तं यत् समाजे स्थायी-परिवर्तनं केवलं सकारात्मक-वैचारिक-जागरणेन सामाजिक-सङ्घटनेन च सम्भवति।

स्वसम्बोधने प्रो. सिन्हा अवदत् यत् केवलं बाह्य-धार्मिक-आक्रमणेन अथवा कस्यचित् संकटस्य कारणेन उत्पन्ना एकता स्थायिनी न भवति। समाजस्य वास्तविक-एकता तस्य साझा-सांस्कृतिक-मूल्येषु, पारस्परिक-विश्वासे, राष्ट्रिय-चेतनायां च आधारिताऽस्ति। तेन एतदपि उक्तं यत् राष्ट्रिय-स्वयंसेवक-संघः शासनं च पृथक् संस्थे स्तः। संघस्य विचारधारा कस्यापि सर्वकारस्य शासकस्य वा इच्छानुसारं न प्रवर्तते, अपितु स्वकीय-मूल-सिद्धान्तानां सङ्घटनात्मक-दृष्टेः च अनुरूपं कार्यं करोति।

कार्यक्रमस्य सञ्चालनम् उत्तर-असम-प्रान्तस्य प्रचार-प्रमुखः किशोर-शिवम् अकरोत्। समापन-सत्रे गुवाहाटी-विश्वविद्यालयस्य भौतिकी-विभागस्य अध्यक्षा प्रो. कल्पना-बोरा अतिथीनां प्रतिभागिनां च प्रति कृतज्ञतां प्रकटयन्ती अवदत् यत् एतादृशाः वैचारिक-कार्यक्रमाः समाजस्य यूनां च मध्ये संवादस्य चिन्तनस्य च नूतनां दिशां प्रददति।

Hindusthan Samachar / Divya Ranjan