Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 जुलाईमासः (हि.स.)।
सन्तमहर्षेः भगवान् वाल्मीकेः विरुद्धं काङ्ग्रेसपक्षस्य प्रवक्ता दीपक झा इत्यस्य कथितायाः आपत्तिजनकटिप्पण्याः विरोधे वाल्मीकि धर्मसम्मानरक्षासमित्याः पक्षतः शनिवासरे राजघाटस्य पुरतः धरनाप्रदर्शनस्य आयोजनम् अभवत्।
अस्मिन् विरोधप्रदर्शने भारतीयजनतापक्षस्य देहलीप्रदेशाध्यक्षः हर्ष मल्होत्रा सहभागी अभवत्। तेन काङ्ग्रेसपक्षः तस्य प्रवक्ता दीपक झा च वाल्मीकिसमाजस्य भावनाः आहतवन्तौ इति आरोपः कृतः।
महामण्डलेश्वरस्य कृष्ण शाह विद्यार्थी महाराजस्य अध्यक्षतायां सम्पन्ने अस्मिन् धरणे सम्मिलितेषु वाल्मीकिसमाजस्य दलितसमाजस्य च गणमान्येषु आचार्यः विवेक मुनिः, अनिल वाल्मीकि, अजय भाई, साध्वी दीप्ति महाराज, साध्वी रेणुका जाटव, विष्णो दास महाराज, प्रकाश तंवर, राम चरण गुजराती, छात्रपाल सिंह, सुशान्त गोल्डी, राजेन्द्र पारचा, नितिन दिमान, सुनीता काङ्गडा, कर्म सिंह करमा इत्यादयः प्रमुखाः आसन्।
अस्मिन् प्रदर्शने सम्बोधनं कुर्वन् देहलीप्रदेशस्य भारतीयजनतापक्षाध्यक्षः हर्ष मल्होत्रा अवदत् यत् जुलाईमासस्य चतुर्थदिने जी टीवी इति दूरदर्शनवाहिन्याः चर्चाकार्यक्रमे काङ्ग्रेसपक्षस्य प्रवक्ता दीपक झा महर्षेः भगवान् वाल्मीकेः विषये या भाषा प्रयुक्तवान्, सा केवलम् एकस्य व्यक्तेः अपमानः नासीत्, अपितु कोटिशः जनानाम् आस्थायाः, तेषाम् आराध्यस्य, अस्य देशस्य सांस्कृतिकमूल्यानां च उपरि प्रहारः आसीत्।
देहलीप्रदेशाध्यक्षः अवदत् यत् महर्षिः वाल्मीकि केवलम् एकस्य जातेः न, अपितु सम्पूर्णस्य भारतस्य सम्पूर्णमानवजातेश्च गुरुः अस्ति। एतादृशस्य महान् सन्तस्य विषये दूरदर्शनचर्चायाम् अशिष्टशब्दानां प्रयोगः अत्यन्तं निन्दनीयः अस्ति। तेन उक्तं यत् काङ्ग्रेसपक्षेन सार्वजनिकरूपेण क्षमायाचना कर्तव्या।
हर्ष मल्होत्रा अवदत् यत् काङ्ग्रेसपक्षस्य पुरातनी प्रवृत्तिः अस्ति यत् निर्वाचनात् पूर्वं वाल्मीकिसमाजं दलितसमाजं च स्मृत्वा मञ्चेषु छायाचित्रग्रहणं करोति, बृहद्वचनानि ददाति, किन्तु सत्तां प्राप्त्वा तान् विस्मरति।
सः अवदत् यत् काङ्ग्रेसपक्षस्य सर्वकारः षष्टिवर्षपर्यन्तं केन्द्रे आसीत्, तथापि वाल्मीकिबस्तिषु दृढगृहाणि, शुद्धपेयजलम्, उत्तमविद्यालयाः न प्रदत्ताः। स्वच्छताकर्मचारिणां सन्ततीनां कृते भारतीयप्रौद्योगिकीसंस्थासु, भारतीयप्रबन्धनसंस्थासु, चिकित्सामहाविद्यालयेषु वा विशेषगुणवत्तायुक्तशिक्षायाः व्यवस्था अपि न कृता।
हर्ष मल्होत्रा अवदत् यत् काङ्ग्रेसपक्षेन वाल्मीकिसमाजः दलितसमाजश्च केवलं मतसञ्चयरूपेण उपयुज्यते स्म। तस्य राजनीतिः गरीबा भवत, अस्माकं मतसञ्चये भवत इति भावनायाः आधारेण प्रवर्तते। वाल्मीकिसमाजस्य दलितसमाजस्य च सम्मानः, अधिकाराः, आरक्षणेन सह अवसराः अपेक्षिताः। बालकेभ्यः उत्तमा शिक्षा, सर्वकारीयनियुक्तिषु पदोन्नतिः, उद्योगस्थापनार्थं ऋणसुविधा, स्वाभिमानश्च आवश्यकः।
देहलीप्रदेशाध्यक्षः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी धारा ३५ ए निरस्य वाल्मीकिसमाजस्य कृते काश्मीरे आरक्षणलाभस्य द्वारम् उद्घाटितवान्। सः अवदत् यत् वाल्मीकिसमाजः कस्यचित् मतसञ्चयः नास्ति, अपितु राष्ट्रनिर्मातृसमाजः अस्ति।
हर्ष मल्होत्रा अवदत् यत् सर्वैः संकल्पः करणीयः यत् वयं तमेव निर्वक्ष्यामः यः महर्षेः वाल्मीकेः मन्दिरस्य विकासेन सह विद्यालयान् महाविद्यालयान् च दास्यति, सन्तानां सम्मानं करिष्यति, समाजस्य उत्थानं च साधयिष्यति।
अस्मिन् अवसरे विश्वहिन्दूपरिषदः देहलीप्रान्तप्रमुखः कपिल खन्ना, त्रिलोकपुरीविधानसभाक्षेत्रस्य विधायकः रविकान्त रवि, देहलीभारतीयजनतापक्षस्य अनुसूचितजातिमोर्चाध्यक्षः मोहनलाल गिहारा, निगमपार्षदः विकास टांक, एनडीएमसी सदस्यः अनिल कुमार च अस्मिन् शान्तिपूर्णविरोधप्रदर्शने सहभागी अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani