Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १८ जुलाईमासः (हि.स.)। जनता-दलस्य उत्तरप्रदेश-प्रदेश-कार्यकारिण्याः महत्त्वपूर्णा सभा शनिवासरे लखनऊस्थिते चौधरी-चरणसिंह-सभागारे, सहकारिता-भवने सम्पन्ना। सभायाः अध्यक्षतां प्रदेशाध्यक्षः अनूप-सिंह-पटेलः अकरोत्। सभायां बिहार-सर्वकारस्य मन्त्रिमण्डल-मन्त्री जदयू-विधायक-दलस्य नेता च श्रवण-कुमारः मुख्यातिथिरूपेण उपस्थितः आसीत्।
सभायां प्रदेश-कार्यकारिण्याः सदस्याः, सर्वे जनपदाध्यक्षाः, विभिन्न-प्रकोष्ठानां अध्यक्षाः तथा प्रदेश-पदाधिकारिणः सहभागिनः अभवन्। सङ्घटन-विस्तारः, अग्रिम-कार्यक्रमाः तथा वर्षे २०२७ तमे उत्तरप्रदेश-विधानसभा-निर्वाचनस्य रणनीतिः इत्यादिषु विषये विस्तृतं विमर्शः अभवत्।
सभायां निर्णयः कृतः यत् २०२७ तमे विधानसभानिर्वाचनं दृष्ट्वा प्रथमं मण्डल-सम्मेलनानि, जनपद-सम्मेलनानि, विधानसभा-सम्मेलनानि च आयोजयित्वा अनन्तरं राज्यस्तरीयं सम्मेलनम् आयोजयिष्यते, यस्मिन् जदयू-दलस्य राष्ट्रिय-कार्यकारी-अध्यक्षः संजय-झा सहभागितां करिष्यति।
एतदतिरिक्तं दलस्य वरिष्ठ-नेतारः बिहार-सर्वकारस्य मन्त्रिणश्च विधानसभा-जनपद-मण्डल-स्तरेषु व्यापक-जनसम्पर्क-कार्यक्रमान् तथा सङ्घटनात्मक-कार्यक्रमान् आयोजयिष्यन्ति, येन उत्तरप्रदेशे दलस्य सङ्घटनं अधिकं सुदृढं भवेत्।
सभायां अग्रिम-विधानसभा-निर्वाचनस्य सिद्धतायाः अन्तर्गतं सर्वेभ्यः जनपदेभ्यः प्रदेश-पदाधिकारिभ्यश्च सम्भावितानाम् इच्छुकानां प्रत्याशिनां नामानि समीक्षार्थम् आमन्त्रयितुं निर्णयः कृतः। सहैव जनपद-विधानसभा-बूथ-स्तरपर्यन्तं सङ्घटन-विस्तारस्य तस्य प्रगतेश्च विस्तृता समीक्षा कृता। समीक्षा-प्रक्रियायाः सम्पन्नतायाः अनन्तरं उत्तरप्रदेशे केषु विधानसभा-क्षेत्रेषु दलं निर्वाचनं योधिष्यते इति औपचारिकी घोषणा करिष्यते।
सभाम् उद्दिश्य प्रदेशाध्यक्षः अनूप-सिंह-पटेलः उक्तवान् यत् जनता-दलं वर्षे २०२७ तमे उत्तरप्रदेश-विधानसभा-निर्वाचनं पूर्ण-सामर्थ्येन सङ्घटनात्मक-शक्त्या च योत्स्यते तथा प्रदेशे भाविन्यां सर्वकारे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
मुख्यातिथिः श्रवण-कुमारः बिहार-सर्वकारस्य विशेषतः ग्रामीण-विकास-विभागेन सञ्चालितानां जनकल्याण-योजनानां उल्लेखं कृत्वा उक्तवान् यत् मुख्यमन्त्रिणः नीतीश-कुमारस्य नेतृत्वे विगत-द्वि-दशकेषु बिहारः विकासे, सुशासने, सामाजिक-कल्याणे च उल्लेखनीयाः उपलब्धीः प्राप्तवान्। तेन उक्तं यत् महिलाभ्यः, कन्याभ्यः, ग्रामीण-विकासाय च सम्बद्धाः अनेके योजनाः अद्य अन्येषां राज्याणामपि प्रेरणास्रोतांसि जाताः। तेन उत्तरप्रदेशस्य कार्यकर्तारः आहूताः यत् ते एताः जनहितकारी-योजनाः जदयू-दलस्य विकासोन्मुख-विचारधारां च जनं जनं प्रति प्रसारयन्तु।
Hindusthan Samachar / Divya Ranjan