‘मम भारतः’ युवानः नेतृत्वेन राष्ट्रनिर्माणेन च संयोजयितुं प्रभावी माध्यमम् - डॉ. मनसुख-माण्डविया
देशस्य युवानः जागरूकान् सशक्तांश्च कर्तुम् अस्ति। यदा वयम् अधिकारीरूपेण न, अपितु सेवाप्रदातारूपेण कार्यं कुर्मः, तदा परिणामाः अधिकं प्रभाविनः भवन्ति।” केन्द्रीयमन्त्री भूमिस्तरे अधिकं व्यापकं सम्पर्कं स्थापयितुम् आह्वानं कृत्वा अधिकारिभ्यः आग्रहम्
लखनऊ में चिंतन शिविर को संबोधित करते केन्द्रीय मंत्री डा.मनसुख मांडविया


लखनऊ में चिंतन शिविर को संबोधित करते केन्द्रीय मंत्री डा.मनसुख मांडविया


देशस्य युवानः जागरूकान् सशक्तांश्च कर्तुम् अस्ति। यदा वयम् अधिकारीरूपेण न, अपितु सेवाप्रदातारूपेण कार्यं कुर्मः, तदा परिणामाः अधिकं प्रभाविनः भवन्ति।”

केन्द्रीयमन्त्री भूमिस्तरे अधिकं व्यापकं सम्पर्कं स्थापयितुम् आह्वानं कृत्वा अधिकारिभ्यः आग्रहम् अकरोत् यत् १५ अगस्तमासपर्यन्तं प्रचलन्तं ‘मम भारत’ पञ्जीकरण-अभियानं विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु, स्थानीय-समुदायेषु च शीघ्रतया विस्तारयन्तु। तेन उक्तं— “‘मम भारत’ प्रत्येकं युवानं प्रति प्रापयन्तु। प्रत्येकं पात्रं युवानम् अस्य मञ्चस्य सह संयोजयन्तु तथा स्वसमर्पणेन भूमिस्तरीय-सहभागितया च एतत् पञ्जीकरण-अभियानं जनान्दोलनरूपेण परिवर्तयन्तु।”

डॉ. माण्डविया ‘विकसित-भारत-यङ्ग-लीडर्स्-डायलॉग’ इत्यस्य विस्तारस्य घोषणां कुर्वन् अवदत् यत् अधुना अस्य राष्ट्रिय-संस्करणेन सह राज्य-स्तरीय-संस्करणमपि आयोजयिष्यते। अनेन विकसित-भारत @२०४७ इत्यस्य यात्रायां अधिक-संख्यकानां युवा-नेतॄणां सहभागिता सुनिश्चिता भविष्यति।

शिविरम् उद्दिश्य सम्बोधयन् केन्द्रीय-राज्यमन्त्री रक्षा-निखिल-खडसे अवदत् यत् ‘मम भारत’ द्वि-कोट्यधिक-पञ्जीकरणैः सह देशस्य बृहत्तमं युवा-मञ्चं जातम् अस्ति, यत् राष्ट्र-निर्माणे युवानां वर्धमानां प्रतिबद्धतां प्रदर्शयति। तेन उक्तं— “संवादं विना समाधानं न सम्भवति। श्रेष्ठतमाः समाधानाः भूमिस्तरे कार्यरतानाम् अस्माकम् अधिकारिणां अनुभवेषु एव निहिताः सन्ति।” पुनः तेन उक्तं— “यदि वयं सर्वे समान-दृष्ट्या कार्यं कुर्मः, तर्हि विकसित-भारतस्य सङ्कल्पः अवश्यं सिद्धिं गमिष्यति।”

सभाम् उद्दिश्य प्रदेशस्य युवा-क्रीडा-मन्त्री गिरीश-चन्द्र-यादवः ‘मम भारत’ इत्येतत् नवाचारस्य, राष्ट्रभक्तेः, युवा-नेतृत्वस्य च आन्दोलनम् इति वर्णयन् अवदत् यत् एतत् विकसित-भारत @२०४७ इत्यस्य लक्ष्य-प्राप्तौ महत्त्वपूर्णां भूमिकां निर्वहिष्यति। तेन उक्तं— “यदा युवानः जागरूकाः भवन्ति, तदा केवलं योजनाः संस्थाश्च न परिवर्तन्ते, अपितु सम्पूर्णः राष्ट्रोऽपि परिवर्तते।”

Hindusthan Samachar / Divya Ranjan