मध्यप्रदेशमंत्रिमंडलस्य नवाचारः देशे अनुपमः, नीतिगत निर्णयैस्सह ऐतिहासिकसंपत्सु समक्षीकरणस्य अवसरः
- विश्व धरोहर स्थलात् खजुराहो इत्यस्मात् हिल स्थानके पचमढ़ी इत्यत्र संजातानि उपवेशनानि, जगदीशपुरे जायते अष्टमं गंतव्यस्थलीयं मंत्रिमंडलोपवेशनम् भोपालम्, 18 जुलाईमासः (हि.स.)।मध्यप्रदेशे मन्त्रिपरिषदः उपवेशनानां आयोजनार्थं नूतनप्रयत्नाः क्रियमाणाः
खजुराहो में हुई मंत्रिपरिषद् की बैठक का चित्र (फाइल फोटो)


- विश्व धरोहर स्थलात् खजुराहो इत्यस्मात् हिल स्थानके पचमढ़ी इत्यत्र संजातानि उपवेशनानि, जगदीशपुरे जायते अष्टमं गंतव्यस्थलीयं मंत्रिमंडलोपवेशनम्

भोपालम्, 18 जुलाईमासः (हि.स.)।मध्यप्रदेशे मन्त्रिपरिषदः उपवेशनानां आयोजनार्थं नूतनप्रयत्नाः क्रियमाणाः सन्ति। तदन्तर्गतं प्रदेशस्य विविधेषु अञ्चलेषु मन्त्रिपरिषदः उपवेशनानां आयोजनस्य पहल कृता। जनकल्याणसम्बद्धाः नीतिनिर्णयाः केवलं भोपालस्थिते मन्त्रालये एव न, अधुना तु प्रदेशस्य सुदूरप्रदेशेष्वपि क्रियमाणाः सन्ति। एतानि उपवेशनानि राजधानीतः बहिः ऐतिहासिकसांस्कृतिकजनजातीयमहत्त्वयुक्तेषु स्थानेषु आयोज्यन्ते।

जनसम्पर्काधिकारी अशोकमनवानी शनिवासरे अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य पहलया मध्यप्रदेशे मन्त्रिपरिषदः उपवेशनानि राजधानी भोपालतः बहिः आयोज्यन्ते। अस्य क्रमस्य अन्तर्गतं भोपालस्य समीपवर्तिनि प्राचीनप्रासादस्मारकयुक्ते जगदीशपुरग्रामे रविवासरे जुलैमासस्य एकोनविंशतितमे दिनाङ्के मन्त्रिपरिषदः उपवेशनं भविष्यति। एषः प्राचीनधरोहरस्य अवलोकनसम्यगवगमनयोः अवसरः अपि अस्ति। अनेन प्रदेशस्य पुरासम्पदः विषये सामान्यजनानां ज्ञानवृद्धिः भवति तथा एतेषां स्थानानां महत्त्वमपि वर्धते। महेश्वरम्, सिंग्रामपुरम्, इन्दौरस्य राजवाडा च एतानि तानि स्थानानि सन्ति यत्र मन्त्रिपरिषदः उपवेशनानि सम्पन्नानि, येषां प्रति जनानां जिज्ञासा अपि वर्धिता। एतत् भविष्ये पर्यटनदृष्ट्या अपि महत्त्वपूर्णं भविष्यति।

अर्धत्रिवर्षेषु सप्त उपवेशनानि सम्पन्नानि

तेन उक्तं यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे गतार्धत्रिवर्षेषु भोपाले नियमितमन्त्रिपरिषदुपवेशनानां अतिरिक्तं अन्येषु स्थानेषु सप्त मन्त्रिपरिषदुपवेशनानां नवाचारः कृतः। मध्यप्रदेशे कृतः अयं नवाचारः सामान्यजनैः अपि प्रशंसितः। भोपालस्य अतिरिक्तं जबलपुरे, दमोहे, खरगोणे, नर्मदापुरे, छतरपुरे, बडवानीजनपदे च मन्त्रिपरिषदः उपवेशनानि सम्पन्नानि। विश्वधरोहरस्थले खजुराहो छतरपुरजनपदे सम्पन्नेन उपवेशनेन सह एतेषु सर्वेषु उपवेशनेषु जनकल्याणसम्बद्धाः बहुविधनिर्णयाः स्वीकृताः।

बाबामहाकालस्य नगरे अपि भविष्यति मन्त्रिपरिषदुपवेशनम्

जनसम्पर्काधिकारी अवदत् यत् मुख्यमन्त्री डॉ. मोहनयादवः सामान्यमन्त्रिपरिषदुपवेशनेन सह कृषिमन्त्रिपरिषदुपवेशनम् अपि प्रदेशस्य प्रत्येकस्मिन् अञ्चले आयोजयितुं निर्णयं कृतवान्। उल्लेखनीयम् अस्ति यत् बाबामहाकालस्य नगरी उज्जयिन्याम् अपि मन्त्रिपरिषदुपवेशनं प्रस्तावितम् अस्ति। अनेन प्रदेशस्य विविधस्थानेभ्यः जनप्रतिनिधीनां वरिष्ठाधिकारिणां च परस्परसम्पर्ककार्यं सुलभं जातम्। यत्र पूर्वं राजधानीमध्ये एव जनहितसम्बद्धाः महत्त्वपूर्णनिर्णयाः स्वीक्रियन्ते स्म, अधुना तु अस्य नवाचारस्य अन्तर्गतं प्रदेशस्य लघुतमग्रामस्तरात् अपि जनकल्याणसम्बद्धाः महत्त्वपूर्णनिर्णयाः स्वीक्रियन्ते।

शौर्यस्य प्रतीकायाः रानीदुर्गावत्याः सुशासनस्य प्रतिमायाः देवीअहिल्याबायाः पुण्यस्मरणम्

तेन उक्तं यत् मन्त्रिपरिषदुपवेशनस्य आयोजनार्थं साहसशौर्ययोः प्रतीकायाः रानीदुर्गावत्याः तथा सुशासनलोककल्याणयोः पर्यायरूपायाः देवीअहिल्याबायाः स्मृतिसम्बद्धस्थानानाम् अपि विशेषध्यानं कृतम्। मन्त्रिपरिषदुपवेशनार्थं प्रदेशे तादृशानि व्यक्तित्वानि चयनितानि येषां शौर्ये, सुशासने, लोककल्याणे, सेवाक्षेत्रे च विशिष्टं स्थानम् अस्ति। अस्य क्रमस्य अन्तर्गतं दमोहजनपदस्य सिंग्रामपुरम्, खरगोनजनपदस्य महेश्वरम्, नर्मदापुरजनपदस्य पचमढी, छतरपुरजनपदस्य खजुराहो, इन्दौरस्य राजवाडास्मारकः च समाविष्टाः। मुख्यमन्त्री डॉ. मोहनयादवः जनजातीयसंस्कृतेः प्रमुखकेन्द्रे बडवानीजनपदस्य नागलवाडीस्थाने मन्त्रिपरिषदुपवेशनम् आयोजितवान्। पचमढ्यां जनप्रियशासकस्य भभूतसिंहस्य स्मृत्यर्थं मन्त्रिपरिषदुपवेशनम् आयोजितम्।

महाकौशलअञ्चलात् आरब्धा पहल

जनसम्पर्काधिकारी अवदत् यत् मुख्यमन्त्री डॉ. मोहनयादवः मुख्यमन्त्रिपदस्य दायित्वग्रहणानन्तरं सर्वप्रथमं तादृशानां गौरवशालिनां व्यक्तित्वानां जीवनचरित्रेण नागरिकान् परिचाययितुं पहलम् अकरोत्, येषां विषये प्रदेशस्य प्रत्येकः जनः ज्ञातुं अर्हति। रानीदुर्गावत्याः शौर्यस्मरणार्थं वर्षस्य २०२४ आरम्भे एव जनवरीमासस्य तृतीयदिनाङ्के जबलपुरे मन्त्रिपरिषदुपवेशनम् आयोजितम्। विश्वधरोहरस्थले खजुराहो तथा प्रदेशस्य प्रसिद्धे गिरिस्थले पचमढ्यां अपि उपवेशनानि सम्पन्नानि।

राजधानी भोपालस्य अतिरिक्तं एतेषु स्थानेषु मन्त्रिपरिषदुपवेशनानि सम्पन्नानि

३ जनवरी २०२४ : जबलपुरस्य शक्तिभवने मन्त्रिपरिषदः उपवेशनम् अभवत्।

५ अक्टोबर २०२४ : दमोहजनपदस्य सिंग्रामपुरे वीराङ्गना रानीदुर्गावत्याः सम्मानार्थं मन्त्रिपरिषदः उपवेशनम् अभवत्।

२४ जनवरी २०२५ : लोकमाता अहिल्याबायाः नगरी महेश्वरे खरगोनजनपदे मन्त्रिपरिषदः उपवेशनम् अभवत्।

२० मई २०२५ : लोकमाता देवीअहिल्याबायाहोल्करस्य त्रिशततमजयंतीवर्षे इन्दौरस्य राजवाडे मन्त्रिपरिषदः उपवेशनम् अभवत्।

३ जून २०२५ : नर्मदापुरजनपदस्य पचमढीस्थिते राजभवने राज्ञः भभूतसिंहस्य शौर्याय समर्पितं मन्त्रिपरिषदः उपवेशनम् अभवत्।

९ दिसम्बर २०२५ : खजुराहोस्थिते महाराजछत्रसालकन्वेन्शनकेन्द्रे मन्त्रिपरिषदः उपवेशनम् अभवत्।

२ मार्च २०२६ : बडवानीजनपदस्य जनजातीयबहुलक्षेत्रे भीलटबाबादेवस्थले नागलवाडीग्रामे मन्त्रिपरिषदः उपवेशनम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani