‘मॉक-पार्लियामेण्ट्’ इत्येतादृशाः कार्यक्रमाः विद्यार्थिषु तार्किक-चिन्तनम्, प्रभावी-अभिव्यक्तिं नेतृत्व-क्षमतां च वर्धयन्ति - प्रो. अजित-कुमार-चतुर्वेदी
— ‘काशी-यूथ-समिट् : मॉक-पार्लियामेण्ट् २.०’ इत्यत्र रचनात्मक-संवाद-संस्कृतेः प्रोत्साहनम् वाराणसीनगरम्, १८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीस्थिते काशी-हिन्दू-विश्वविद्यालयस्य मालवीय-मूल्य-अनुशीलन-केन्द्रे भाषा-विज्ञान-विभागस्य कला-सङ्कायस
बीएचयू में आयोजित 'मॉक पार्लियामेंट ' में कुलपति प्रो. अजित कुमार चतुर्वेदी


— ‘काशी-यूथ-समिट् : मॉक-पार्लियामेण्ट् २.०’ इत्यत्र रचनात्मक-संवाद-संस्कृतेः प्रोत्साहनम्

वाराणसीनगरम्, १८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीस्थिते काशी-हिन्दू-विश्वविद्यालयस्य मालवीय-मूल्य-अनुशीलन-केन्द्रे भाषा-विज्ञान-विभागस्य कला-सङ्कायस्य शैक्षणिक-सहयोगेन शनिवासरे ‘काशी-यूथ-समिट् : मॉक-पार्लियामेण्ट् २.०’ इति कार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य उद्देश्यं युवसु लोकतान्त्रिक-मूल्यानां, संसदीय-परम्पराणां, नेतृत्व-क्षमतायाः तथा रचनात्मक-संवाद-संस्कृतेः प्रोत्साहनम् आसीत्।

कार्यक्रमस्य समापन-सत्रे मुख्यातिथिरूपेण कुलपतिः प्रो. अजित-कुमार-चतुर्वेदी उक्तवान् यत् प्रत्येकं जनाय स्वविचार-प्रस्तुतेः अवसरः प्रदातव्यः, एषः लोकतन्त्रस्य मूलाधारेषु अन्यतमः अस्ति। तेन उक्तं यत् स्वस्थं लोकतन्त्रं विचार-विविधतायाः सम्मानं करोति तथा युवानः स्वतन्त्रतया चिन्तयितुं, प्रश्नान् पृष्टुं, नवोन्मेषस्य दिशि अग्रे गन्तुं च प्रेरयति। प्रो. चतुर्वेदी अवदत् यत् ‘मॉक-पार्लियामेण्ट्’ इत्यादृशाः कार्यक्रमाः विद्यार्थिषु तार्किक-चिन्तनम्, प्रभावी-अभिव्यक्तिं, नेतृत्व-क्षमतां, संवाद-कौशलं च विकसितवन्ति, यत् सर्वेषु क्षेत्रेषु सफलतायै अत्यन्तम् आवश्यकम् अस्ति। तेन अपि उक्तं यत् संसदः विविध-समितयः नीति-निर्माण-प्रक्रियायां समाजस्य विविध-वर्गाणां शिक्षाविदां च विचारान् महत्त्वेन गृह्णन्ति। तेन विचार: दत्तः यत् एतादृशाः कार्यक्रमाः सामाजिक-माध्यमेषु व्यापक-रूपेण प्रसारयितव्याः, येन अधिकाधिकाः युवानः लोकतान्त्रिक-संवादात् संसदीय-परम्पराभ्यश्च प्रेरणां प्राप्नुयुः।

विशिष्टातिथिः प्रो. सुषमा-घिल्डियाल: उक्तवती यत् विश्वविद्यालयः विद्यार्थिनां सर्वाङ्गीण-विकासाय तादृशं वातावरणं प्रददाति, यत्र ते स्वप्रतिभां, नेतृत्व-क्षमतां, सामाजिक-उत्तरदायित्वं च विकसितुं शक्नुवन्ति। छात्र-अधिष्ठाता प्रो. रञ्जन-कुमार-सिंहः अवदत् यत् ‘मॉक-पार्लियामेण्ट्’ कृते चयनिताः विषयाः वर्तमान-कालस्य अत्यन्तं महत्त्वपूर्णैः प्रासङ्गिकैश्च विषयैः सम्बद्धाः सन्ति।

कार्यक्रमस्य संयोजकः प्रो. अभिनव-कुमार-मिश्रः (भाषा-विज्ञान-विभागाध्यक्षः) अवदत्— “काशी-यूथ-समिट् विचाराणां रचनात्मक-क्रान्तेः मञ्चः अस्ति। अस्य उद्देश्यं युवभ्यः लोकतान्त्रिक-मूल्यानां, संसदीय-परम्पराणां, राष्ट्र-निर्माण-सम्बद्ध-विषयाणां च विषये सार्थकस्य तथ्यपरकस्य च संवादस्य अवसरं प्रदातुम् अस्ति।” अस्मिन् वर्षे वाराणस्याः विभिन्न-विद्यालयेभ्यः उच्च-शिक्षण-संस्थाभ्यश्च प्रायः २०० प्रतिभागिनः अस्मिन् समिट्-कार्यक्रमे सहभागिनः अभवन्।

स्वागत-उद्बोधनं सौम्या-शुक्लया प्रस्तुतम्। प्रतियोगितायां प्रायः १७० प्रतिभागिनः सहभागिनः अभवन्। ‘मॉक-पार्लियामेण्ट्’ अन्तर्गतं प्रतिभागिभिः लोकसभा, ऑल-इण्डिया-पॉलिटिकल-पार्टी-मीट् तथा संयुक्त-राष्ट्र-महिला-स्थिति-आयोगः इत्येतयोः कार्यप्रणाल्याः अनुकरणं कृत्वा प्रश्नपत्र-प्रस्रवणम्, तृतीय-लिङ्ग-अधिकाराः, अफगानिस्ताने महिलानाम् अधिकाराः सुरक्षा च इत्यादिषु सामयिक-विषयेषु पक्ष-विपक्ष-दृष्टिकोणाभ्यां लोकतान्त्रिक-संसदीय-शैल्यां सारगर्भिताः वाद-विवादाः प्रस्तुताः।

कार्यक्रमस्य अन्ते विभिन्न-समितीनां उत्कृष्ट-प्रतिभागिनः विजेतारश्च सम्मानिताः।

Hindusthan Samachar / Divya Ranjan