Enter your Email Address to subscribe to our newsletters

— ऊर्जामन्त्रिणा सायंकाले विभागस्य योजनानां परियोजनानां च विस्तृता समीक्षा कृता
वाराणसीनगरम्, १८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य नगर-विकास-ऊर्जा-मन्त्री ए. के. शर्मा शनिवासरे वाराणसीस्थिते सर्किट-हाउस-सभागारे ऊर्जा-विभागस्य योजनानां परियोजनानां च विस्तृतां समीक्षाम् अकरोत्। अस्मिन् अवसरे तेन अधिकारिभ्यः निर्देशः प्रदत्तः यत् श्रावण-मासस्य काँवड-यात्रायाश्च पूर्वं सर्वाः आवश्यक-सिद्धताः निर्धारित-समय-सीमायाः अन्तर्गतं सम्पादनीयाः, येन श्रद्धालुभ्यः निर्बाधा सुरक्षित-विद्युत्-आपूर्तिः सुनिश्चिता भवेत्।
मन्त्रिणा उक्तं यत् प्रदेश-सर्वकारः नवीन-प्रौद्योगिकीनां माध्यमेन विद्युत्-अवसंरचनायाः वैश्विक-स्तरीयं स्वरूपं निर्मातुं निरन्तरं प्रयतते। अस्याः योजनायाः अन्तर्गतं वाराणस्याः काशी-विश्वनाथ-मन्दिरे, सङ्कट-मोचन-मन्दिरे तथा सर्किट-हाउस्-भवने रिङ्ग-मेन-यूनिट् इति प्रौद्योगिकी स्थापिता। अस्याः प्रौद्योगिक्याः प्रयोगेण विद्युत्-वितरण-जालं अधिकं सुरक्षितं आधुनिकं प्रभावात्मकं च भविष्यति। तेन उक्तं यत् द्वाभ्यां पृथग्विद्युत्-उपकेन्द्राभ्यां सम्बद्धायां अस्यां व्यवस्थायां यदि एकस्मात् स्रोतसः विद्युत्-आपूर्तिः बाधिता भवति, तर्हि अपरस्मात् स्रोतसः तत्क्षणमेव विद्युत्-आपूर्तिः आरभ्यते, येन निर्बाधा विद्युत्-आपूर्तिः भविष्यति।
समीक्षा-सभायां मन्त्रिणा षोडश-नवीन-विद्युत्-उपकेन्द्राणां निर्माण-कार्यस्य प्रगतेः अपि समीक्षा कृता। अधिकारिभिः सूचितं यत् चतुर्दश-उपकेन्द्राणां निर्माणकार्यं प्रचलति। तेषु दश-उपकेन्द्राणां छदि-निर्माणं सम्पन्नम् अस्ति तथा भूमितल-निर्माण-कार्यं प्रवर्तते। अवशिष्टयोः द्वयोः उपकेन्द्रयोः भूमिसम्बद्धाः समस्याः सन्ति, तासां समाधानार्थं प्रयत्नाः निरन्तरं क्रियन्ते। अस्मिन् विषये मन्त्रिणा निर्देशः प्रदत्तः यत् सर्वाः बाधाः शीघ्रं निराकृत्य निर्माण-कार्यं समयबद्धतया सम्पन्नं क्रियताम्।
सभायां वंश-वल्ली-निर्मूलन-अभियानस्य समीक्षां कुर्वन् श्री-शर्मा अधिकारिभ्यः एकस्मिन् मासे एतत् कार्यम् अनिवार्यतया सम्पन्नं कर्तुम् आदेशम् अयच्छत्। तेन उक्तं यत् एतेन विद्युत्-व्यवस्था अधिका सुरक्षिताऽविश्वसनीया च भविष्यति।
ग्रीष्मकाले प्राप्तानां उपभोक्तृ-अभियोगानां समीक्षां कुर्वन् मन्त्रिणा तेषां स्वरूपं निस्तारणस्य स्थितिं च ज्ञातम्। तेन उक्तं यत् प्रदेशवासिभ्यः गुणवत्तायुक्ता निर्बाधा च विद्युत्-आपूर्तिः प्रदातुं सर्वकारस्य सर्वोच्च-प्राथमिकता अस्ति। उपभोक्तृ-अभियोगानां शीघ्र-प्रभावि-निस्तारणे कश्चन प्रमादः न सह्यते।
श्रावण-मासस्य काँवड-यात्रायाश्च सिद्धतायाः समीक्षां कुर्वन् मन्त्रिणा अधिकारिभ्यः निर्देशः प्रदत्तः यत् काँवड-मार्गेषु निर्बाधा विद्युत्-आपूर्तिः सुनिश्चिता क्रियताम्। सहैव जीर्ण-विद्युत्-रेखाणां मरम्मत-कार्यं, संवेदनशील-स्थलेषु विशेष-निरीक्षणं, सर्वेषां सुरक्षा-मानकानां कठोरतया पालनं च सुनिश्चितं भवतु। तेन स्पष्टतया संचेतना प्रदत्ता यत् काँवड-यात्रा-काले विद्युत्-व्यवस्थायां कस्यापि प्रकारस्य प्रमादः दुर्घटना वा जाता चेत् सम्बन्धित-अधिकारिणां उत्तरदायित्वं निश्चितीकृत्य तेषां विरुद्धं कठोरा कार्यवाही करिष्यते।
Hindusthan Samachar / Divya Ranjan