Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १८ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य पूर्व-मन्त्री वाराणसी-दक्षिण-विधानसभा-क्षेत्रस्य विधायकः डॉ. नीलकण्ठ-तिवारी रविवासरात् स्वस्य विधानसभा-क्षेत्रे षट्सप्तति-दिवसीयं ‘वार्ड-प्रवास’-कार्यक्रमम् आरम्भं करिष्यति। अस्य कार्यक्रमस्य शुभारम्भः रविवासरे प्रातः ७:३० वादने सूर्यकुण्डस्थिते सनातन-धर्म-इण्टर-महाविद्यालये प्रदेशस्य ऊर्जामन्त्री डॉ. ए. के. शर्मा करिष्यति।
विधायकः डॉ. नीलकण्ठ-तिवारी शनिवासरे अवदत् यत् प्रतिवर्षमिव अस्मिन् वर्षेऽपि वार्ड-प्रवास-कार्यक्रमः आयोज्यते। अस्य अन्तर्गतं सः विधानसभा-क्षेत्रस्य सर्वेषु वार्ड-इत्येतेषु क्रमशः रात्रि-प्रवासं करिष्यति, स्थानीय-नागरिकैः सह संवादं स्थापयिष्यति, तेषां समस्याः श्रुत्वा सम्बन्धित-अधिकारिणां माध्यमेन तासां शीघ्रं समयबद्धं च समाधानं कर्तुं प्रयतिष्यते।
तेन उक्तं यत् वार्ड-प्रवास-काले प्रत्येकस्मिन् वार्ड भ्रमणम्, स्वच्छता-अभियानं, जनसम्पर्क-कार्यक्रमाश्च आयोजयिष्यन्ते। पर्यावरण-संरक्षण-सन्तुलनयोः उद्देश्येन प्रतिदिनं पञ्च-वृक्षाणां रोपणमपि क्रियिष्यते।
डॉ. तिवारी अवदत् यत् षट्सप्तति-दिवसीयस्य अस्य अभियानस्य अवधौ आगच्छन्तेषु सर्वेषु दश रविवासरेषु विशेष-जनकल्याण-लाभार्थि-शिविराणि आयोजयिष्यन्ते। एतेषु शिविरेषु पात्र-नागरिकेभ्यः सर्वकारस्य विविध-योजनानां लाभः प्रदातुं विभागीय-अधिकारिणां कर्मचारिणां च उपस्थितौ आवेदनानि स्वीकृतानि भविष्यन्ति तथा तेषां समयबद्ध-निस्तारणम् सुनिश्चितं करिष्यते।
तेन उक्तं यत् शिविरेषु विधवा-पेन्शनम्, वृद्धावस्था-पेन्शनम्, दिव्याङ्ग-पेन्शनम्, छात्रवृत्तिः, प्रधानमन्त्री-आवास-योजना, मुख्यमन्त्री-आवास-योजना, राशन-पत्रम्, विश्वकर्मा-श्रम-योजना, रोजगार-सम्बद्ध-योजनाः तथा स्वास्थ्य-परीक्षण-शिविरादयः सुविधाः उपलब्धाः भविष्यन्ति।
वार्ड-प्रवासस्य प्रथम-दिवसे रविवासरे कोनिया-स्थिते ऑक्सफोर्ड-विद्यालये पूर्वाह्णे १० वादनात् विशेष-लाभार्थि-शिविरम् आयोज्यते, यत्र पात्र-नागरिकाः विभिन्न-सर्वकारीय-योजनानां कृते आवेदनं कर्तुं शक्नुवन्ति।
विधायकेन उक्तं यत् षट्सप्तति-दिवसीयस्य वार्ड-प्रवास-कार्यक्रमस्य सफल-सञ्चालन-समन्वयार्थं मुख्य-राजस्व-अधिकारी अपर-नगर-आयुक्तश्च नोडल-अधिकारिणौ नियुक्तौ स्तः।
Hindusthan Samachar / Divya Ranjan