उत्तरप्रदेशस्य युवभ्यः सुवर्णावसरः, मेजर-ध्यानचन्द-क्रीडा-विश्वविद्यालयस्य स्नातकोत्तर-डिप्लोमायाः मान्यता उच्चस्तरीया
— योगी-सर्वकारस्य नीति: क्रीडाणां प्रोत्साहनम्, उत्तरप्रदेशः क्रीडा-शिक्षायाः प्रशिक्षकाणां च प्रमुखं केन्द्रं भविष्यति — एनएसएनआईएस, एलएनआईपीई तथा यूजीसी-मान्यता-प्राप्त-विश्वविद्यालयानां समकक्षा भविष्यति डिप्लोमा-इत्यस्य मान्यता — आवेदनस्य अन्त
मुख्यमंत्री योगी आदित्यनाथ


— योगी-सर्वकारस्य नीति: क्रीडाणां प्रोत्साहनम्, उत्तरप्रदेशः क्रीडा-शिक्षायाः प्रशिक्षकाणां च प्रमुखं केन्द्रं भविष्यति

— एनएसएनआईएस, एलएनआईपीई तथा यूजीसी-मान्यता-प्राप्त-विश्वविद्यालयानां समकक्षा भविष्यति डिप्लोमा-इत्यस्य मान्यता

— आवेदनस्य अन्तिम-तिथिः ३१ जुलाईमासपर्यन्तं वर्धिता, विभिन्न-क्रीडा-विधासु प्रवेशस्य अवसरः

लखनऊनगरम्, १८ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे उत्तरप्रदेश-सर्वकारः क्रीडाणां प्रोत्साहनाय प्रदेशं च क्रीडा-शिक्षायाः प्रमुख-केन्द्ररूपेण विकसितुं निरन्तरं प्रयत्नशीलः अस्ति। अस्याः योजनायाः अन्तर्गतं मेरठनगरस्थितस्य मेजर-ध्यानचन्द-क्रीडा-विश्वविद्यालयस्य स्नातकोत्तर-डिप्लोमा एनएसएनआईएस, एलएनआईपीई तथा यूजीसी-मान्यता-प्राप्त-विश्वविद्यालयानां डिप्लोमायाः समकक्षः मान्यता भविष्यति।

एषा मान्यता न केवलं विश्वविद्यालयस्य शैक्षणिक-गुणवत्तायाः प्रमाणम् अस्ति, अपितु प्रदेशस्य युवभ्यः राष्ट्रिय-स्तरे प्रतिस्पर्धात्मक-अवसरानपि प्रदास्यति। अनेन राज्यस्य क्रीडकाः क्रीडा-प्रशिक्षकाः भवितुम् इच्छुकाश्च युवानः उत्तरप्रदेशे एव उच्च-गुणवत्तायुक्तां क्रीडा-शिक्षां प्राप्तुं समर्थाः भविष्यन्ति।

एनएसएनआईएस, एलएनआईपीई तथा यूजीसी-मान्यता-प्राप्त-डिप्लोमायाः समकक्षा भविष्यति मान्यता

मेजर-ध्यानचन्द-क्रीडा-विश्वविद्यालयेन प्रदीयमाना स्नातकोत्तर-डिप्लोमा भारत-सर्वकारस्य युवा-कार्यक्रम-क्रीडा-मन्त्रालयस्य २०१८ तमवर्षस्य अधिसूचनानुसारं नेताजी-सुभाष-राष्ट्रीय-क्रीडा-संस्थानं पटियालानगरस्य, लक्ष्मीबाई-राष्ट्रीय-शारीरिक-शिक्षा-संस्थानं ग्वालियरनगरस्य तथा यूजीसी-मान्यता-प्राप्त-राज्य-विश्वविद्यालयैः प्रदीयमानस्य समकक्ष-डिप्लोमायाः तुल्यं मान्यता भविष्यति।

अस्याः मान्यतायाः प्रमुखः लाभः एषः यत् अत्रतः डिप्लोमा-प्राप्ताः विद्यार्थिनः देशव्यापिषु क्रीडा-संस्थानेषु, विश्वविद्यालयेषु, सर्वकारीय-विभागेषु, क्रीडा-अकादमीषु तथा निजी-संस्थासु रोजगारस्य प्रशिक्षणस्य च उत्तमान् अवसरान् प्राप्स्यन्ति। अनेन उत्तरप्रदेशस्य क्रीडकानां उच्च-गुणवत्तायुक्त-क्रीडा-प्रशिक्षणार्थम् अन्य-राज्येषु आश्रयः न अपेक्षितः भविष्यति।

शैक्षणिक-सत्रे २०२६–२७ प्रवेश-प्रक्रिया प्रचलति

क्रीडा-शिक्षायाः उत्कृष्ट-प्रशिक्षकाणां निर्माणस्य च उद्देश्येन विश्वविद्यालयेन शैक्षणिक-सत्रे २०२६–२७ स्नातकोत्तर-डिप्लोमा इत्यनया सह विभिन्न-पाठ्यक्रमेषु प्रवेशार्थम् आवेदनानि आमन्त्रितानि। इच्छुकाः अभ्यर्थिनः विश्वविद्यालयस्य आधिकारिक-जालपुटस्य माध्यमेन अन्तर्जाल-आवेदनं कर्तुं शक्नुवन्ति।

विद्यार्थिनां हितं दृष्ट्वा विश्वविद्यालय-प्रशासनेन आवेदनस्य अन्तिम-तिथिः अपि विस्तृता। पूर्वं सा १५ जुलाईमासः २०२६ आसीत्, अधुना तु ३१ जुलाईमासः २०२६ पर्यन्तं विस्तृता। इच्छुकाः अभ्यर्थिनः अन्तर्जाल तथा साक्षात् उभयविधया आवेदनं कर्तुं शक्नुवन्ति। अस्य निर्णयस्य उद्देश्यं अधिकाधिकेभ्यः योग्य-विद्यार्थिभ्यः प्रवेशस्य अवसरं प्रदातुम् अस्ति।

एतासु क्रीडा-विधासु प्रशिक्षणं प्रदास्यते

विश्वविद्यालयस्य एकवर्षीयः स्नातकोत्तर-डिप्लोमा-कार्यक्रमः आधुनिक-क्रीडा-विज्ञानस्य प्रशिक्षक-प्रविधीनां च आधारेण निर्मितः अस्ति। अस्मिन् सत्रे एथलेटिक्स्, बैडमिण्टन्, कबड्डी, मल्लयुद्धम्, मुष्टि-युद्धम्, योगः, हॉकी तथा क्रीडा-पत्रकारिता-जनसञ्चार-विषयेषु प्रवेशः प्रदास्यते।

एतदतिरिक्तं विश्वविद्यालयः शीघ्रमेव अश्वक्रीडायाम् अपि डिप्लोमा-पाठ्यक्रमम् आरम्भं करिसयति, यस्य विस्तृत-विवरणं पृथक् प्रकाशितं भविष्यति। विश्वविद्यालयः न्यून-शुल्केन गुणवत्तायुक्तां क्रीडा-शिक्षां, आधुनिक-प्रशिक्षण-सुविधाः तथा उत्तमान् व्यवसायिक-अवसरान् प्रदास्यति।

विश्वस्तरीय-सुविधाभिः सिद्धाः भविष्यन्ति प्रशिक्षकाः

मेजर-ध्यानचन्द-क्रीडा-विश्वविद्यालये विद्यार्थिभ्यः अनुभवी-विशेषज्ञ-आचार्याः, अत्याधुनिक-क्रीडा-अवसंरचना, आधुनिक-प्रशिक्षण-उपकरणानि, क्रीडा-विज्ञान-आधारित-शिक्षण-पद्धतिः तथा वैश्विक-स्तरीय-अध्ययन-सुविधाः प्रदास्यन्ते। विश्वविद्यालयस्य उद्देश्यं केवलं क्रीडकान् निर्मातुं न, अपितु तादृशान् दक्षान् प्रशिक्षितान् प्रशिक्षकान् निर्मातुम् अस्ति, ये भविष्ये राष्ट्रिय-अन्ताराष्ट्रिय-स्तरे क्रीडकाणां मार्गदर्शनं कर्तुं समर्थाः भविष्यन्ति।

इच्छुक-अभ्यर्थिभ्यः समये आवेदनस्य आग्रहः

विश्वविद्यालयेन सर्वेभ्यः इच्छुक-अभ्यर्थिभ्यः समये आवेदनं कर्तुम् आग्रहः कृतः। प्रवेश-प्रक्रिया, पात्रता, आवश्यक-तथ्यानि तथा अन्याः विस्तृत-सूचनाः विश्वविद्यालयस्य आधिकारिक-जालपुटे उपलब्धाः सन्ति।

योगी-सर्वकारेण विगत-नववर्षेषु क्रीडा-विकासाय विशेष-प्राथमिकता प्रदत्ता। प्रदेशे प्रथमः क्रीडा-विश्वविद्यालयः, क्रीडा-महाविद्यालया:, क्रीडाङ्गणानि तथा प्रशिक्षण-केन्द्राणि स्थापितानि। क्रीडकानां कृते उत्तम-प्रशिक्षणम्, छात्रवृत्तयः, पुरस्काराः तथा आधुनिक-सुविधाः अपि प्रदीयन्ते। एतस्यैव क्रमस्य अन्तर्गतं मेजर-ध्यानचन्द-क्रीडा-विश्वविद्यालयस्य स्थापना प्रदेशस्य क्रीडा-इतिहासे महत्त्वपूर्णः अध्यायः मन्यते।

स्नातकोत्तर-डिप्लोमा-विद्यार्थिभ्यः रोजगारस्य नूतनाः अवसराः उद्घाटिताः भविष्यन्ति

विश्वविद्यालयस्य कुलपतिः मेजर-जनरल दीप-अहलावतः शनिवासरे अवदत् यत् राज्य-विश्वविद्यालयस्य मान्यतायाः प्राप्त्या एतेषां स्नातकोत्तर-डिप्लोमा-कार्यक्रमाणां विद्यार्थिनां रोजगार-अवसराः अधिकं विस्तृताः भविष्यन्ति। विशेषतया उत्तर-भारतस्य अभ्यर्थिनः अधुना राष्ट्रिय-स्तरीय-गुणवत्तायुक्तां क्रीडा-शिक्षां स्वप्रदेशे एव सुलभतया सुविधया च प्राप्तुं शक्नुवन्ति। एषा मान्यता क्रीडा-शिक्षा-क्षेत्रे युवभ्यः नूतनान् अवसरान् उद्घाटयिष्यति तथा तेषां व्यवसायिक-जीवनाय नूतनां दिशां प्रदास्यति।

Hindusthan Samachar / Divya Ranjan