Enter your Email Address to subscribe to our newsletters


श्रीहरिकोटा, 18 जुलाईमासः (हि.स.)। देशस्य प्रथमः निजीयरूपेण विकसितः कक्षीयः प्रक्षेप्ययानः विक्रम-१ शनिवासरे स्वलक्षितकक्षां सफलतया प्राप्तवान्। एषः प्रक्षेपणः भारतस्य अन्तरिक्षकार्यक्रमे महत्त्वपूर्णा उपलब्धिरिति मन्यते।
विक्रम-१ अद्य मध्याह्ने १२.०५ वादने आन्ध्रप्रदेशस्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् अन्तरिक्षं प्रति प्रक्षिप्तः। हैदराबादनगरस्थितया स्काईरूट एयरोस्पेस कम्पन्या विकसितस्य अस्य प्रक्षेप्ययानस्य प्रथमायाः परीक्षणयात्रायाः नाम “मिशन आगमन” इति आसीत्।
पूर्वं अस्य अभियानस्य प्रक्षेपणं प्रातः ११.३० वादने भविष्यतीति निर्धारितम् आसीत्, किन्तु कतिपयैः तकनीकीकारणैः तत् मध्याह्ने १२.०५ वादने सम्पन्नम्। प्रायः पञ्चदशमिनिटपरिमितायाः उड्डयनावधेः अनन्तरं सर्वेषां चरणानां सफलसमापनात् यानं यथालक्ष्यं ४५० किलोमीटरोन्नतायां कक्षायां सम्यक् प्रतिष्ठितम्।
प्रक्षेप्ययाने लक्षितकक्षां प्राप्ते भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य (इसरो) अध्यक्षः डॉ. वी. नारायणन् अन्यान् वैज्ञानिकान् अभिनन्दितवान्। ततः इसरो संस्थया विक्रम-१ अभियानस्य सफलसमाप्तिः औपचारिकरूपेण घोषिताभवत्।
इसरो संस्थया एक्स-माध्यमे प्रकाशितसंसूचनायां उक्तम् यत्, “अयं अभियानः भारतस्य निजी-अन्तरिक्षक्षेत्रस्य कृते महत्त्वपूर्णः मीलस्तम्भः अस्ति तथा च देशस्य अन्तरिक्षपारिस्थितिकीव्यवस्थायाः वर्धमानां क्षमतां प्रदर्शयति। तकनीकीपरामर्शेन चतुर्विंशतिघण्टिकासुरक्षानिरीक्षणेन, प्रक्षेपणस्य भूमिपरीक्षणकार्याणां च सक्षमीकरणे सहयोगं कृतवन्त्यः इन-स्पेस तथा इसरो संस्थायाः दलाः अभिनन्दनीयाः। एषा उपलब्धिः प्रधानमन्त्री नरेन्द्रमोदिना परिकल्पितानाम् अन्तरिक्षक्षेत्रसुधाराणामपि प्रमाणम्।”
सफलप्रक्षेपणस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी तथा विज्ञान-प्रौद्योगिकी-राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः स्काईरूट एयरोस्पेस कम्पन्याः वैज्ञानिकांश्च अभिनन्दितवन्तौ। प्रधानमन्त्री कम्पन्याः सहसंस्थापकाभ्यां पवनकुमारचन्दना तथा नागाभरतडाका इत्याभ्यां दूरभाषेण सम्भाषणं कृत्वा उक्तवान् यत् स्काईरूट आकाशे स्वमूलानि दृढीकृतवती, भूमौ अपि तानि सुदृढानि कृतवती, यानि देशस्य युवानः प्रेरयिष्यन्ति।
एतत् प्रक्षेपणं भारतस्य अन्तरिक्षक्षेत्रस्य नूतनयुगस्य प्रारम्भरूपेण परिगण्यते, यतः एषः देशस्य प्रथमः निजीयरूपेण विकसितः कक्षीयः प्रक्षेप्ययानः अभवत्।
विक्रम-१ स्वेन सह अन्तरराष्ट्रीयान् देशीयांश्च तकनीकीप्रदर्शकपेलोडान् वहति। तेषु अष्टादशकैरट्-सुवर्णनिर्मितं सूक्ष्मयानम् अपि अस्ति, यस्य अन्तः नोबेलपुरस्कारविजेता सर् सी. वी. रमणः, डॉ. विक्रमसाराभाई तथा पूर्वराष्ट्रपतिः वैज्ञानिकः डॉ. ए. पी. जे. अब्दुलकलामः इत्येषां सूक्ष्मकलाकृतयः सन्ति, याः तण्डुलबीजात् अपि लघ्वीः सन्ति। अस्य अतिरिक्तं हीरकमणिभूषणम् तथा स्काईरूटस्य स्वकीयः स्कोप् उपग्रहः अपि समाविष्टः।
विक्रम-१ चतुर्विंशतिमीटरदीर्घः कक्षीयवर्गीयः प्रक्षेप्ययानः अस्ति। लघूपग्रहाणां प्रक्षेपणार्थं विशेषरूपेण अस्य निर्माणं कृतम्। अयं सम्पूर्णतया लघु-कार्बन-संमिश्रसंरचनया निर्मितः अस्ति। तेन अस्य भारः न्यूनः भवति, क्षमता च वर्धते। कम्पन्याः अनुसारं कार्बनतन्तुः दृढतमात् इस्पातात् अपि प्रायः पञ्चगुणं लघुतरः अस्ति।
स्काईरूट कम्पन्याः अनुसारम् अजयकुमारमट्टेवाडा विरचितः सूक्ष्मकलाकृतिसमूहः अपि विक्रम-१ अभियानस्य सह अन्तरिक्षं प्रेषितः। तत्र अष्टादशकैरट्-सुवर्णनिर्मितं लघु-प्रक्षेप्ययानम् अस्ति। तस्य अन्तः सर् सी. वी. रमणः, डॉ. विक्रमसाराभाई तथा डॉ. ए. पी. जे. अब्दुलकलामः इत्येषां त्रयाणां महानां वैज्ञानिकानां अतीव सूक्ष्ममूर्तयः निर्मिताः सन्ति। एतासां मूर्तीनां परिमाणम् इत्थं सूक्ष्मम् अस्ति यत् ताः तण्डुलस्य एकस्माद् बीजात् अपि लघ्वीः सन्ति। अस्य अभियानस्य सह प्रधानमन्त्री नरेन्द्रमोदिनः हस्तलिखितं पोस्टकार्डम् अपि अन्तरिक्षं प्रेषितम्। तस्मिन् “वन्दे मातरम्” इति लिखितम् अस्ति।
अद्यपर्यन्तं भारते उपग्रहाणां कक्षायां प्रेषणकार्यं मुख्यतया इसरो संस्थायाः प्रक्षेप्ययानैः एव क्रियमाणम् आसीत्। स्काईरूट एयरोस्पेस कम्पन्याः स्थापना २०१८ तमे वर्षे अभवत्। कम्पन्या १८ नवम्बर् २०२२ दिनाङ्के विक्रम-एस इति नाम्ना स्वस्य प्रथमं निजीयं उपकक्षीयप्रक्षेप्ययानं सफलतया परीक्षितवती। तत् प्रक्षेप्ययानं प्रायः ८८.८ किलोमीटरोन्नतिं प्राप्तवान् तथा निर्धारितमिशनरूपरेखां सफलतया सम्पन्न्य बंगालोपसागरे अवतीर्णम्।---------------
Hindusthan Samachar / Dheeraj Maithani