Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 जुलाईमासः (हि.स.)। केन्द्रीयसंसदीयकार्यमन्त्री किरेनरिजिजू संसदः वर्षाकालीनसत्रस्य सुचारुसञ्चालनाय सामान्यसम्मतेः निर्माणाय च जुलैमासस्य १९ दिनाङ्के रविवासरे सर्वदलीयोपवेशनम् आहूतवान्। एतदुपवेशनं प्रातः एकादशवादने संसदभवने आयोज्यते। अस्मिन् विविधदलानां नेतृभिः सह राष्ट्रियमहत्त्वस्य विषयेषु प्रस्तूयमानविधेयकेषु च चर्चा भविष्यति। अस्मिन् उपवेशने तृणमूलकाङ्ग्रेसदलस्य विद्रोहिसांसदाः अपि आमन्त्रिताः सन्ति। राष्ट्रियजनतान्त्रिकगठबन्धने नव्यरूपेण सम्मिलितस्य नेशनलिस्टसिटिजन्सपार्टीआफइण्डिया इत्यस्य तृणमूलकाङ्ग्रेसदलं परित्यज्य आगताः विंशतिसांसदाः अपि उपस्थास्यन्ति।
उपवेशने सर्वकारः आगामिसत्रे प्रस्तूयमानानां प्रमुखविधेयकानां विधायीकार्यसूच्याः च विवरणं प्रदास्यति। अपरपक्षे विपक्षीयदलानि अस्मिन् सत्रे ये विषयाः संसदि उत्थापयितुमिच्छन्ति तान् विषयान् प्रस्तुतयिष्यन्ति।
सर्वदलीयोपवेशनस्य प्रमुखः उद्देश्यः सदनस्य कार्यवाहीं सुचारुरूपेण प्रवर्तयितुम् अनावश्यकगतिरोधात् परिहारं कर्तुं राष्ट्रियमहत्त्वस्य विषयेषु सार्थकचर्चां सुनिश्चितां च कर्तुमस्ति। सर्वकारस्य आशा अस्ति यत् सर्वेषां दलानां सहयोगेन वर्षाकालीनसत्रम् उत्पादकं परिणाममुखं च भविष्यति।
----------------------
Hindusthan Samachar / Dheeraj Maithani