ई-मोबिलिटीत्यस्य लक्ष्यं केवलं तकनीक परिवर्तनं न अपितु सततम् औद्योगिकम्इकोसिस्टमनिर्माणम् : भूपेंद्र यादवः
नव दिल्ली, 02 जुलाईमासः (हि.स.)। केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्र यादवः अवदत् यत् भारते विद्युत् गतिशीलतायाः प्रति प्रवर्तमानं पदक्षेपणं केवलं पारम्परिकयानानां स्थाने विद्युत्चालितयानानां स्थापनमेव नास्ति, अपितु तस्य उद्देश्यं ता
एसोचैम के कार्यक्रम को संबोधित करते हुए केंद्रीय मंत्री


नव दिल्ली, 02 जुलाईमासः (हि.स.)।

केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्र यादवः अवदत् यत् भारते विद्युत् गतिशीलतायाः प्रति प्रवर्तमानं पदक्षेपणं केवलं पारम्परिकयानानां स्थाने विद्युत्चालितयानानां स्थापनमेव नास्ति, अपितु तस्य उद्देश्यं तादृशस्य स्थाय्यौद्योगिकपरितन्त्रस्य विकासः अस्ति, यः विनिर्माणक्षेत्रं सुदृढं करोति, हरितरोजगारान् सृजति तथा विकसितभारत २०४७ इति लक्ष्यस्य सिद्धौ योगदानं ददाति।

असोचैम संस्थया गुरुवासरे अत्र आयोजिते राष्ट्रियसम्मेलने इलेक्ट्रिक मोबिलिटी बिल्डिंग इंडिया एन इलेक्ट्रिक मोबिलिटी हब फॉर विकसित भारत इति विषये सम्बोधनं कुर्वन् यादवः अवदत् यत् विद्युत्गतिशीलतायाः विस्ताराय हरितविकासः, सुदृढमूलभूतसंरचना, पारदर्शिशासनव्यवस्था तथा वृत्ताकारार्थव्यवस्थायाः प्राधान्यं दातव्यम्, येन दीर्घकालिकपर्यावरणीयस्थिरता सुनिश्चिता भवेत्।

तेन उक्तं यत् पर्यावरणीयानुमोदनप्रक्रियायाः सरलीकरणाय, परिवेशपोर्टलस्य माध्यमेन अनुमोदनव्यवस्थायाः डिजिटलीकरणाय, अनुपालनसम्बद्धावश्यकतानां युक्तिसंगतपरिमार्जनाय तथा पर्यावरणसंरक्षणेन सह व्यापारसौकर्यवर्धनाय शासनस्य पक्षतः अनेके सुधारकार्यक्रमाः क्रियन्ते।

यादवः अवदत् यत् भारतेन टेक मेक डिस्पोज इति प्रतिमानात् अग्रे गत्वा पुनरुपयोगः, पुनर्चक्रणम् तथा संसाधनानां स्थायिप्रबन्धनाधारितां वृत्ताकारार्थव्यवस्थां स्वीकर्तव्या। तेन विद्युत्गतिशीलतायाः प्रोत्साहनाय सुदृढविद्युद्भरणजालम्, उन्नतविनिर्माणस्य स्थानीयकरणम्, महत्त्वपूर्णखनिजानां सुरक्षितापूर्तिशृङ्खला, बैटरीपुनर्चक्रणम् तथा संसाधनदक्षता अत्यावश्यकानि इति प्रतिपादितम्।

अस्मिन् सम्मेलने नीतिनिर्मातारः, उद्योगजगतः प्रतिनिधयः, वाहननिर्माणकम्पन्यः तथा प्रौद्योगिकीविशेषज्ञाः सहभागिनः अभवन्। विचारविमर्शस्य समये विद्युत्चालितयानानां प्रोत्साहनार्थं नीतिनिरन्तरता, विद्युत्भरणमूलभूतसंरचनायाः विस्तारः, स्थानीयविनिर्माणस्य संवर्धनम्, बैटरीआपूर्तिशृङ्खलायाः सुदृढीकरणम्, वित्तीयसहायता तथा प्रौद्योगिकीनवोन्मेषः इत्यादिषु विशेषबलं दत्तम्।

कार्यक्रमे असोचैम संस्थायाः अध्यक्षः निर्मल के मिण्डा, हरितगतिशीलताराष्ट्रीयपरिषदः अध्यक्षः तथा जेबीएम समूहस्य उपाध्यक्षः प्रबन्धनिदेशकः निशान्त आर्यः, असोचैम संस्थायाः महासचिवः सौरभ सान्यालः तथा अन्ये बहवः उद्योगप्रतिनिधयः उपस्थिताः आसन्।

-------------

Hindusthan Samachar / Dheeraj Maithani