Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 02 जुलाईमासः (हि.स.)।
नवदेहल्यां बिहारशासनस्य पथनिर्माणमन्त्री तथा बिहपुरविधानसभाक्षेत्रस्य विधायकः अभियन्ता शैलेन्द्रः गुरुवासरे भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षं नितिन नवीन इत्येनं शिष्टाचारभेटायाम् उपागच्छत्।
अस्मिन् अवसरे मन्त्रिणा तस्मै पुष्पगुच्छः तथा अङ्गवस्त्रं समर्प्य सम्मानः कृतः। भेंटसमये उभयोः नेतृभ्यां संगठनसम्बद्धविषयेषु, आगामिनिर्वाचनरणनीत्यां तथा बिहारराज्ये मार्गसेतुमूलभूतसंरचनायाः विकासविषये विस्तृतचर्चा कृता।
उल्लेखनीयम् अस्ति यत् नितिन नवीन पूर्वं बिहारस्य पथनिर्माणमन्त्रिपदस्य दायित्वम् अपि निर्वहितवान्। अतः मन्त्री अभियन्ता शैलेन्द्रः तस्य अनुभवस्य लाभं गृहीत्वा विविधविकासपरियोजनानां विषये मार्गदर्शनं प्राप्तवान्।
मन्त्रिणा भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षाय राज्ये निर्माणाधीनानां एक्सप्रेस वे मार्गाणाम्, पीएमआरएमसी परियोजनानाम्, सेतुस्वास्थ्यपत्रप्रणाल्याः तथा सर्वेषां सेतूनां द्रोणयानाधारितनिरीक्षणव्यवस्थायाः विस्तृता सूचना प्रदत्ता।
तेन उक्तं यत् सेतूनां द्रोणयाननिरीक्षणार्थम् अत्याधुनिकं नियन्त्रणआज्ञाकेन्द्रं पटनानगरे स्थाप्यते, येन सेतूनां नियमितपर्यवेक्षणं सुरक्षाव्यवस्था च अधिकं सुदृढा भविष्यति।
अभियन्ता शैलेन्द्रः अवदत् यत् सम्प्रति बिहारराज्ये प्रायः त्रिपञ्चाशत्सहस्रकोटिरूप्यकाधिकव्यययुक्ताः मार्गनिर्माणपरियोजनाः तीव्रगत्या प्रचलन्ति। तेन सह नवगछियायाः जाह्नवीचतुष्पथात् अगुवानीघाटमार्गेण पटनानगरपर्यन्तं गङ्गायाः उत्तरतीरे प्रस्तावितमार्गनिर्माणपरियोजनायाः विषये अपि सकारात्मकसम्मतिः अभवत्।
तेन उक्तं यत् एषा परियोजना साकारा सति उत्तरबिहारस्य मार्गसम्पर्कव्यवस्थायाः ऐतिहासिकसुदृढीकरणं भविष्यति तथा क्षेत्रस्य आर्थिकसामाजिकविकासाय नूतनां दिशं प्रदास्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani