Enter your Email Address to subscribe to our newsletters

सुरक्षितस्य सुशासनस्य प्रदत्तानां संरक्षणस्य मानकैः सुदृढ़ीजाता विभागस्य डिजिटल विश्वसनीयता : आयुक्त भोंडवे
भोपालम्, 02 जुलाईमासः (हि.स.) ।
मध्यप्रदेशस्य नगरीयविकासआवासविभागस्य ई नगर पालिका पोर्टल इत्यस्मै राष्ट्रीय ई गवर्नेन्स पुरस्कार २०२६ अन्तर्गतं साइबरसुरक्षाश्रेण्यां प्रतिष्ठितः रजतपुरस्कारः प्राप्तः। जयपुरनगरे जुलाईमासस्य प्रथमद्वितीयदिनयोः आयोजिते नवविंशतितमे राष्ट्रिय ई गवर्नेन्स पुरस्कारसमारोहे अयं सम्मानः मुख्यातिथिना केन्द्रीयराज्यमन्त्रिणा विज्ञानप्रौद्योगिकी तथा कार्मिक लोकशिकायत पेंशनविभागस्य डा जितेन्द्रसिंहेन आयुक्ताय संकेत भोंडवे प्रदत्तः।
जनसम्पर्काधिकारिणी अवन्तिका जायसवाल गुरुवासरे अवदत् यत् मध्यप्रदेशाय प्राप्तः अयं राष्ट्रियसम्मानः राज्यस्य दूरदर्शिनीत्याः तथा प्रौद्योगिकीश्रेष्ठतायाः जीवन्तं प्रमाणम् अस्ति। मध्यप्रदेशशासनेन नागरिकसेवाः केवलं डिजिटलमाध्यमेन सुलभाः सुगमाः च न कृताः, अपि तु ताभ्यः अभेद्यसुरक्षाकवचम् अपि प्रदत्तम्। नगरीयनिकायैः सम्बद्धानां लक्षशः नागरिकानां संवेदनशीलव्यक्तिगतवित्तीयदत्तांशानां सुरक्षा सुनिश्चितीकरणम्, पारदर्शिप्रशासनस्य अक्षुण्णता तथा सुरक्षितसूचनाप्रौद्योगिकीसंरचनायाः निर्माणम् अस्य पटलस्य प्रमुखवैशिष्ट्यम् अस्ति। डिजिटलशासनस्य जोखिमप्रबन्धनस्य च एतेषु उच्चतममानकेषु ई नगर पालिका पोर्टलेन देशस्य अन्येषां राज्येषां पुरतः सुरक्षितडिजिटलसुशासनस्य अनुकरणीयः प्रतिमानः स्थापितः।
मध्यप्रदेशस्य नगरीयविकासआवासविभागस्य आयुक्तः संकेत भोंडवे अवदत् यत् नगरीयविकासआवासविभागेन आधुनिकप्रौद्योगिकीनां सुदृढसाइबरसुरक्षोपायानां च समन्वयेन पारदर्शिनः सुरक्षिताः विश्वसनीयाः च डिजिटलनागरिकसेवाः सदा सर्वोच्चप्राथमिकतया स्वीकृताः। साइबरसुरक्षा, जोखिमप्रबन्धनम् तथा दत्तांशसंरक्षणक्षेत्रे स्वीकृतानां प्रभाविणां कठोरवैश्विकमानकानां परिणामः एव अस्ति यत् अद्य अस्माकं डिजिटलप्रणालीनां विश्वसनीयता राष्ट्रियस्तरे सुदृढा अभवत्। विभागः भविष्ये अपि नागरिकेभ्यः पूर्णतया सुरक्षिताः विश्वसनीयाः अत्याधुनिकाः च डिजिटलसेवाः प्रदातुं पूर्णतया कटिबद्धः भविष्यति।
आयुक्तः संकेत भोंडवे अस्याः अभूतपूर्वसफलतायाः श्रेयः विभागस्य सम्पूर्णायाः प्राविधिकप्रशासनिकदलस्य सामूहिकप्रयत्नेभ्यः अददात्। तेन विश्वासः व्यक्तीकृतः यत् भविष्ये अपि दलभावनया सह अस्मिन् दिशि अधिकश्रेष्ठप्रयत्नाः करिष्यन्ते, येन मध्यप्रदेशः डिजिटलशासनस्य सर्वोच्चस्थाने सदा प्रतिष्ठितः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani