Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जुलाईमासः (हि.स.)।
विदेशराज्यमन्त्री पबित्रा मार्गेरिटा तथा बिहारराज्यस्य राज्यपालः लेफ्टिनेन्ट जनरल सेवानिवृत्तः सैयद अता हसनैन शुक्रवासरे ईरानदेशस्य सर्वोच्चनेतुः अयातुल्ला अली खामेनेई इत्यस्य अन्त्येष्टिसंस्कारे सहभागित्वार्थम् ईरानदेशं गमिष्यतः।
विदेशमन्त्रालयस्य अनुसारं अस्मिन् समारोहे उच्चस्तरीयप्रतिनिधित्वं उभयदेशयोः सभ्यतासम्बन्धानां महत्त्वं रेखाङ्कयति। एते सम्बन्धाः उभयदेशयोः राजनैतिकआर्थिकसम्बन्धानां कृते सुदृढमाधारं प्रददति।
उल्लेखनीयम् अस्ति यत् खामेनेई फेब्रुवरीमासस्य अष्टाविंशतितमे दिने ईरानदेशस्य राजधानी तेहराननगरे स्थिते तस्य परिसरे सम्पन्ने अमेरिकादेशस्य इजराइलदेशस्य च संयुक्तवायुसैन्याक्रमणे निधनं गतः।
---------------
Hindusthan Samachar / Dheeraj Maithani