जापानीसंस्थाभ्यः प्रधानमंत्री कार्यालय व्यापार सप्ताहस्य करिष्यति आयोजनम्
नव दिल्ली, 02 जुलाईमासः (हि.स.)। प्रधानमन्त्री गुरुवासरे अवदत् यत् तस्य कार्यालयेन शीघ्रमेव समर्पितः जापान व्यापार सप्ताहः आयोजयिष्यते। अस्मिन् सप्ताहे तस्य कार्यालयस्य वरिष्ठाधिकारिणः जापानीयकम्पनीभिः सह मुक्तमनसा विचारविमर्शं करिष्यन्ति, तासां
दोनों देशों के प्रधानमंत्री बिजनेस लीडर्स के साथ


मारुती सुजुकी का प्लांट जिसका आज उदघाटन किया गया।


नव दिल्ली, 02 जुलाईमासः (हि.स.)।

प्रधानमन्त्री गुरुवासरे अवदत् यत् तस्य कार्यालयेन शीघ्रमेव समर्पितः जापान व्यापार सप्ताहः आयोजयिष्यते। अस्मिन् सप्ताहे तस्य कार्यालयस्य वरिष्ठाधिकारिणः जापानीयकम्पनीभिः सह मुक्तमनसा विचारविमर्शं करिष्यन्ति, तासां समस्याः अवगमिष्यन्ति तथा व्यापारस्य सुलभीकरणदिशि कार्यं करिष्यन्ति।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्र मोदी अद्य स्वस्य जापानीयसमकक्ष्या सनाए ताकाइची इत्यनया सह वार्तायाः अनन्तरम् अवदत् यत् आगामिदशवर्षेषु भारतं जापानदेशात् दश ट्रिलियन येन निवेशस्य आकर्षणं तथा देशे कार्यरतानां जापानीयसंस्थानां सङ्ख्यायाः द्विगुणीकरणस्य लक्ष्यं धारयति।

प्रधानमन्त्री नरेन्द्र मोदी अद्य जापानदेशस्य प्रधानमन्त्रिणा सह भारत जापान संयुक्त आर्थिकमञ्चम् सम्बोधितवान्। अस्मिन् अवसरे तेन हरियाणाराज्यस्य खरखोडा इति स्थाने मारुति सुजुकी संस्थायाः नूतनकारखानस्य उद्घाटनम् अपि कृतम्।

प्रधानमन्त्री अवदत् यत् समग्रविश्वे सुजुकी संस्थायाः द्वितीयांशाधिकाः वाहनाः भारते निर्मीयन्ते तथा शताधिकेषु देशेषु निर्यात्यन्ते।

विदेशमन्त्रालयस्य प्रवक्तुः अनुसारं संयुक्त आर्थिकमञ्चे उभयपक्षाभ्यां विशेषरणनीतिकवैश्विकसाझेदारीम् अधिकं सुदृढीकर्तुं उद्योगक्षेत्रस्य महत्त्वपूर्णा भूमिका पुनः प्रत्यभिज्ञाता। चर्चायां निवेशवृद्धिः, सुदृढापूर्तिशृङ्खलानिर्माणम्, मेक इन इंडिया फॉर द वर्ल्ड इति उद्देश्येन विनिर्माणसहकार्यस्य संवर्धनम्, स्वच्छविकासस्य प्रोत्साहनम् तथा महत्त्वपूर्णासु उद्भवमानासु च प्रौद्योगिकीषु सहयोगस्य गहनता इत्येषु विषयेषु विशेषध्यानं दत्तम्।

भारतजापानयोः विशेषार्थिकसाझेदारीम् प्रशंसन् प्रधानमन्त्री अवदत् यत् जापानदेशस्य विशेषज्ञता निवेशश्च तथा भारतस्य तीव्रगति विशालक्षमता च मिलित्वा विश्वस्य हितं कुर्वन्ति। विगतद्वादशवर्षेषु भारतः निरन्तरसुधारस्य अर्थात् काइजेन दर्शनस्य अनुसरणेन स्वस्य आर्थिकस्वभावं परिवर्तितवान्।

आर्थिकक्षेत्रे सम्पन्नानां परिवर्तनानाम् उल्लेखं कुर्वन् प्रधानमन्त्री मोदी अवदत् यत् वयं करव्यवस्थायाम्, प्रशासनव्यवस्थायाम् तथा व्यापारसुगमतायां नूतनपीढ्याः सुधारान् कृतवन्तः। वयं सर्वान् क्षेत्रान् निजीक्षेत्रस्य कृते उद्घाटयामः तथा अनेकेषु क्षेत्रेषु प्रोत्साहनम् अपि प्रदद्मः। तस्य मतम् अस्ति यत् जापानीयोद्योगाः अपि एतेभ्यः लाभं प्राप्नुयुः। एतदेव कारणम् यत् विगतचतुर्षु वर्षेषु निरन्तरं जापान बैंक फॉर इन्टरनेशनल कोऑपरेशन इत्यस्य सर्वेक्षणेन भारतः जापानीयव्यवसायानां कृते अत्यन्तमाशाजनकगन्तव्यदेशः इति निर्दिष्टः।

प्रधानमन्त्री अवदत् यत् भारतः विश्वस्य अतिवेगेन वर्धमाना महती अर्थव्यवस्था अस्ति। गतवित्तवर्षे भारतस्य सकलराष्ट्रीयोत्पादवृद्धिदरः सप्त दशमलव सप्त प्रतिशतं आसीत्। विगतद्वादशवर्षेषु वयं भारतस्य आर्थिकपरिवर्तनस्य दिशि निरन्तरं कार्यं कुर्मः।

प्रधानमन्त्री स्वसमकक्षस्य मोटरसाइकिलरुचिम् उल्लेख्य अवदत् यत् तस्मै हर्षः भवति यत् भारते कावासाकी, यामाहा तथा होंडा संस्थानां द्विचक्रवाहनानि निर्मीयन्ते तथा विश्वस्य विभिन्नदेशेषु निर्यात्यन्ते। एतादृशी एव स्थिति वातानुकूलनयन्त्राणाम्, विद्युत्जालोपकरणानाम् तथा चिकित्साप्रौद्योगिकीक्षेत्रस्य अपि अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani