सोलन नगर निगमे भाजपादलस्य अधिकारः, सुषमा शर्मा संजाता महापौरा, गौरवश्चितः उपमहापौरः
सोलनम्, 02 जुलाईमासः (हि.स.)। सोलननगरनिगमे गुरुवासरे सम्पन्ने महापौरोपमहापौरयोः निर्वाचने भारतीयजनतापक्षेण उभययोः प्रमुखपदयोः विजयः प्राप्तः तथा नगरनिगमस्य सत्तायां स्वाधिकारः अविच्छिन्नः स्थापितः। द्वितीयवार्डस्थलस्य पार्षदा सुषमा शर्मा महापौरपद
सोलन नगर निगम


सोलनम्, 02 जुलाईमासः (हि.स.)।

सोलननगरनिगमे गुरुवासरे सम्पन्ने महापौरोपमहापौरयोः निर्वाचने भारतीयजनतापक्षेण उभययोः प्रमुखपदयोः विजयः प्राप्तः तथा नगरनिगमस्य सत्तायां स्वाधिकारः अविच्छिन्नः स्थापितः। द्वितीयवार्डस्थलस्य पार्षदा सुषमा शर्मा महापौरपदे तथा तृतीयवार्डात् निर्दलीयपार्षदः गौरवः उपमहापौरपदे निर्वाचितः।

महापौर उपमहापौरयोः निर्वाचनसमये भारतीयजनतापक्षस्य प्रदेशाध्यक्षः डा राजीव बिन्दल तथा चौपालक्षेत्रस्य विधायकः बलबीर वर्मा विशेषरूपेण उपस्थितौ आस्ताम्।

सोलननगरनिगमस्य सप्तदशवार्डेषु सम्पन्नेषु निर्वाचनेषु भारतीयजनतापक्षेण दशासनेषु विजयः प्राप्तः, यदा तु षट्सु आसनेषु काङ्ग्रेसपक्षस्य प्रत्याशिनः विजयी अभवन्। तृतीयवार्डात् भारतीयजनतापक्षस्य नामनिर्देशनं न प्राप्तवान् गौरवः निर्दलीयरूपेण निर्वाचनं स्पर्धित्वा विजयी अभवत् तथा पश्चात् भारतीयजनतापक्षस्य समर्थनम् अकरोत्। अनेन भारतीयजनतापक्षस्य पक्षे एकादशपार्षदानां समर्थनम् अभवत् तथा उभययोः पदयोः भारतीयजनतापक्षसमर्थितौ प्रत्याशिनौ विजयी अभवताम्।

निर्वाचनपरिणामस्य अनन्तरं भारतीयजनतापक्षस्य प्रदेशाध्यक्षः डा राजीव बिन्दलः काङ्ग्रेसपक्षं लक्ष्यीकृत्य अवदत् यत् महापौरपदस्य अधिकारप्राप्तये काङ्ग्रेसपक्षेण बहवः प्रयासाः विविधाः राजनैतिकयुक्तयः च स्वीकृताः, किन्तु तस्मै सफलता न प्राप्ता। तेन उक्तं यत् सोलननगरनिगमे भारतीयजनतापक्षस्य विजयः आगामिविधानसभानिर्वाचनानां कृते शुभसंकेतः अस्ति।

डा राजीव बिन्दलः दावम् अकरोत् यत् नगरनिगमे काङ्ग्रेसनेतृत्वं जनतायाः अपेक्षाः पूरयितुं न अशकत्। तेन कारणेन पार्षदानां जनसामान्यस्य च विश्वासः भारतीयजनतापक्षस्य पक्षे दृश्यते। तेन उक्तं यत् भारतीयजनतापक्षः नगरनिगमस्य माध्यमेन नगरस्य विकासाय जनहितकार्याणां च प्राधान्यं भविष्ये अपि दास्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani