प्रशिक्षणेन सह कार्यशालायाः जातम् आयोजनम्
सहरसा, 02 जुलाईमासः (हि.स.)। जिलाबालसंरक्षणैककस्य समग्रशिक्षणविकाससंस्थानस्य च संयुक्ततत्त्वावधाने गुरुवासरे कवचपरियोजनायाः अन्तर्गतं बालानुकूलपञ्चायतनिर्माणे पुलिस तथा अन्यहितधारकाणां भूमिका इति विषये एकदिवसीयप्रशिक्षणसहकार्यशाला सफलतया आयोजिता।
प्रशिक्षण सह कार्यशाला


सहरसा, 02 जुलाईमासः (हि.स.)।

जिलाबालसंरक्षणैककस्य समग्रशिक्षणविकाससंस्थानस्य च संयुक्ततत्त्वावधाने गुरुवासरे कवचपरियोजनायाः अन्तर्गतं बालानुकूलपञ्चायतनिर्माणे पुलिस तथा अन्यहितधारकाणां भूमिका इति विषये एकदिवसीयप्रशिक्षणसहकार्यशाला सफलतया आयोजिता।

कार्यक्रमस्य शुभारम्भः भगवान पाठकेन कृतः। तेन उक्तं यत् समग्रशिक्षणविकाससंस्थानं विगतषट्त्रिंशद्वर्षेभ्यः बिहारराज्यस्य प्रायः दशजिलेषु कार्यरतम् अस्ति। कवचपरियोजना बिहारस्य अष्टसु जिलेषु तथा अन्येषु बहुषु राज्येषु बालकानाम् अधिकारसंरक्षणाय, सुरक्षितभविष्यस्य सुनिश्चितीकरणाय तथा आदर्शजिलाबालसंरक्षणव्यवस्थायाः विकासाय कार्यं करोति।

वरिष्ठप्रशिक्षकः सुनील झा अवदत् यत् बिहारराज्यस्य षट्चत्वारिंशत्प्रतिशतम् जनसङ्ख्या अष्टादशवर्षेभ्यः न्यूनवयस्का अस्ति। यदि बालकाः स्वाधिकारैः वञ्चिताः भवन्ति तर्हि तत् राज्यस्य विकासे बाधकं भवति।

तेन उक्तं यत् परिवारस्य अनन्तरं बालकानां सुरक्षायाः उत्तरदायित्वं राज्यस्य विशेषतः पुलिसविभागस्य अस्ति। प्रत्येकस्मिन् पुलिसस्थाने नियुक्तस्य बालकल्याणपुलिसाधिकारिणः भूमिकायाः, पोक्सो अधिनियमस्य अन्तर्गतं संवेदनशीलसमयबद्धकार्यवाह्याः, अभियुक्तानां शीघ्रग्रहणस्य तथा त्वरितन्यायस्य सुनिश्चितीकरणस्य विषये विशेषबलं दत्तम्।

तथैव बालश्रमनिवारणे बालपलायननिरोधे च पुलिसविभागस्य, पञ्चायतस्य, श्रमविभागस्य, समाजकल्याणविभागस्य, ग्रामीणविकासविभागस्य तथा सामाजिकसंस्थानानां समन्वितभूमिकायाः विषये प्रकाशः निक्षिप्तः।

जिलाबालसंरक्षणैककस्य सहायकनिदेशकः दिवेश शर्मा स्वसम्बोधने प्रस्तुतीकरणे च संयुक्तराष्ट्रबालाधिकारसमझौतया सुनिश्चितानां बालाधिकाराणां तथा भारतीयन्यायसंहितायां बालकान् सम्बद्धानां महत्त्वपूर्णप्रावधानानां विषये विस्तरेण प्रकाशम् अकरोत्।

उपस्थितेभ्यः बालकल्याणपुलिसाधिकारिभ्यः बिहार जुवेनाइल लॉ इति पुस्तकं तथा फॉर्म १७ अपि वितरितम्।

कार्यशालायां जिलाविधिकसेवाप्राधिकरणस्य सुपौलस्य सचिवः मोहम्मद अफजल आलम मुख्यातिथिरूपेण उपस्थितः आसीत्।

अनुमण्डलपुलिसपदाधिकारी राजीव रंजन, जिलाबालसंरक्षणैककस्य सहायकनिदेशकः दिवेश शर्मा, सुपौलबालकल्याणसमितेः अध्यक्षः ईश्वरचन्द्र मिश्रा, सदस्याः कौशलेन्द्र कुमार यादव, अफसरी इल्ताफ, पञ्चम नारायण सिंह च उपस्थिताः आसन्।

सहरसाजिलाबालसंरक्षणैककात् अवधेश कुमार, बालसंरक्षणपदाधिकारी चन्द्रशेखरः, गोपाल सिंह, भास्कर कश्यप, अल्पसंख्यककल्याणविभागस्य सहायकनिदेशकः अनुराग कुमार, किशोरन्यायपरिषदः प्रधानदण्डाधिकारी सोवित सौरभ, सदस्या नीतिमा कुमारी, राम नरेश कौशिक, जनप्रतिनिधिषु पैक्साध्यक्षः मिथिलेश कुमार झा, उपमुखिया प्रदीप कुमार बबलू तथा जिल्लायाः सर्वेषां पुलिसस्थानानां बालकल्याणपुलिसपदाधिकारिणः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani