योगी-सर्वकारः अस्मिन् वर्षेऽपि विद्युत्-शुल्कं न वर्धयिष्यति, विद्युत्-माङ्गल्याः निरन्तर-वृद्धेः अपि गत-सप्तवर्षेषु कापि वृद्धिर्न कृता
लखनऊनगरम्, ०२ जुलाईमासः (हि.स.)। योगी-सर्वकारेण प्रदेशस्य कोटिशः विद्युत्-उपभोक्तृभ्यः महती शिथिलता प्रदत्ता। सर्वकारेण निरन्तरं सप्तम-वर्षेऽपि विद्युत्-शुल्केषु कापि वृद्धिः न करणीयेति निर्णयः कृतः। वित्तीय-वर्षे २०२६-२७ अपि विद्युत्-शुल्कानि तान्
मुख्यमंत्री योगी आदित्यनाथ जनपद सहारनपुर के देहात  विभिन्न जन कल्याणकारी योजनाओं के लाभार्थियों को प्रमाण पत्र वितरण करते हुए।


लखनऊनगरम्, ०२ जुलाईमासः (हि.स.)। योगी-सर्वकारेण प्रदेशस्य कोटिशः विद्युत्-उपभोक्तृभ्यः महती शिथिलता प्रदत्ता। सर्वकारेण निरन्तरं सप्तम-वर्षेऽपि विद्युत्-शुल्केषु कापि वृद्धिः न करणीयेति निर्णयः कृतः। वित्तीय-वर्षे २०२६-२७ अपि विद्युत्-शुल्कानि तान्येव भविष्यन्ति, यानि गत-सप्तवर्षेभ्यः प्रवर्तमानानि सन्ति। विशेषतया अस्मिन् अवधौ विद्युत्-शुल्केषु एकस्य पणकस्यापि वृद्धिः न कृता, येन सामान्य-जनाः, कृषकाः, व्यापारिणः, उद्योगाश्च प्रत्यक्षं लाभं प्राप्नुवन्ति।

योगी-सर्वकारस्य अयं निर्णयः विद्युत्-उपभोक्तॄणां हिताय ऐतिहासिकं पदक्षेपत्वेन परिगण्यते। अनेन सामान्य-नागरिकेभ्यः आर्थिक-राहत् प्राप्ता। विद्युत्-शुल्कानि स्थिराणि स्थापयित्वा योगी-सर्वकारेण विद्युत्-आपूर्ति-व्यवस्थायामपि उल्लेखनीयः सुधारः कृतः। प्रदेशे विद्युत्-आपूर्तिः निरन्तरं उन्नता जाता, नगरेभ्यः ग्रामेभ्यश्च निर्बाध-विद्युत्-आपूर्त्यर्थं व्यापक-स्तरे कार्यं कृतम्। सर्वकारस्य लक्ष्यं प्रत्येकस्मिन् नगरे, प्रत्येकस्मिन् ग्रामे, प्रत्येकस्मिन् मार्गे, प्रत्येकस्यां वीथौ च चतुर्विंशतिहोरात्मकीं गुणवत्तायुक्तां विद्युत्-आपूर्तिं सुनिश्चितं कर्तुम् अस्ति।

अस्मिन् वर्षे ग्रीष्म-ऋतौ उत्तरप्रदेशः विद्युत्-आपूर्ति-क्षेत्रे नूतनं कीर्तिमानमपि स्थापितवान्। राज्ये अधिकतमा विद्युत्-आपूर्तिः ३२,६७३ मेगावाट-परिमाण-पर्यन्तम् अगच्छत्, यदद्यावधि सर्वाधिकं स्तरम् अस्ति।

एतस्मिन् विषये ऊर्जामन्त्री अरविन्द-कुमार-शर्मा सामाजिक-माध्यमे एक्स इत्यत्र प्रकाशितेन सन्देशेन एतां सूचनां प्रदत्तवान्। ऊर्जामन्त्रिणा लिखितं यत् उत्तरप्रदेशे निरन्तरं सप्तम-वर्षेऽपि विद्युत्-शुल्केषु कापि वृद्धिः न कृता। सर्वेषां उपभोक्तॄणां कृते वित्तीय-वर्षे २०२६-२७ अपि तान्येव शुल्कानि भविष्यन्ति, यानि सप्तवर्षेभ्यः पूर्वम् आसन्, यद्यपि सम्प्रति राज्ये विद्युत्-आपूर्तिरपि अधिकतमा अस्ति।

Hindusthan Samachar / Divya Ranjan