Enter your Email Address to subscribe to our newsletters

हुगली, 02 जुलाईमासः (हि.स.)।
डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततमजयंतीसमये पश्चिमबङ्गालशासनेन तस्य पैतृकग्रामे जीराट बलागढ इति स्थाने पञ्चविंशत्यधिकशतपादोन्नता भव्यप्रतिमा स्थापयितुं योजना निर्मिता अस्ति। अस्याः महत्त्वाकाङ्क्षिपरियोजनायाः कृते प्रायः द्विशतकोटिरूप्यकाणि विनियोजितानि सन्ति। प्रतिमया सह संग्रहालयस्य, सभागारस्य तथा पुस्तकालयस्य आधुनिकीकरणकार्यं अपि क्रियते।
प्रशासनिकाधिकारिभिः परियोजनायाः कृते त्रयः सम्भावितस्थलाः निरीक्षिताः। प्रस्तावितलघुबन्दरगाहपरियोजनायाः अनन्तरम् अधुना जीराट इति क्षेत्रस्य नूतनपरिचयस्थापनदिशि एषा योजना महत्त्वपूर्णा मन्यते।
बलागढविधानसभाक्षेत्रस्य विधायकः तथा राज्यमन्त्री सुमना सरकारः डा श्यामाप्रसादमुखर्जी महोदयस्य वंशजैः सह असम लिङ्क मार्गं सहितं अनेकस्थलानि अवलोकितवती। सम्प्रति जीराट बसस्थानकस्य तथा असम लिङ्क मार्गस्य समीपे प्रतिमानिर्माणाय उपयुक्तभूमेः चयनकार्यं प्रचलति।
परियोजनायाः अन्तर्गतं सर आशुतोषमुखर्जी महोदयेन स्थापितस्य विद्यालयस्य तथा पुस्तकालयस्य जीर्णोद्धारस्य प्रस्तावः अपि अस्ति। एतदतिरिक्तं डा श्यामाप्रसादमुखर्जी महोदयस्य नाम्ना नूतनपुस्तकालयस्य स्थापना अपि क्रियते। तस्य भ्रातुः बामाप्रसादमुखर्जिनः पैतृकगृहं संग्रहालयरूपेण विकसितुं योजना अस्ति। सहैव जीराट चिकित्सालयस्य नामपरिवर्तनस्य प्रस्तावः अपि विचाराधीनः अस्ति।
डा श्यामाप्रसादमुखर्जिनो वंशजौ बाणीप्रसादमुखर्जी तथा तस्य पौत्री दीपान्विता मुखर्जी राज्यशासनस्य अस्याः पहलस्य स्वागतं कृत्वा सर्वतोभावेन सहयोगस्य आश्वासनं दत्तवन्तौ।
बाणीप्रसादमुखर्जी अवदत् यत् शासनं अस्माकं पैतृकगृहस्य अधिग्रहणं कृत्वा तत्र संग्रहालयं निर्मास्यति इति सूचना प्राप्ता। वयं अस्मिन् कार्ये सर्वथा सहयोगं कर्तुं सज्जाः स्मः।
दीपान्विता मुखर्जी अवदत् यत् आशुतोषमुखर्जी तथा डा श्यामाप्रसादमुखर्जी महोदययोः इतिहासः जीराट बलागढ क्षेत्रात् लोपयितुं पूर्वं प्रयत्नः कृतः आसीत्। अधुना शासनस्य एषा नूतना प्रयत्नः आरब्धोऽस्ति, तस्मिन् अस्माकं पूर्णः सहयोगः भविष्यति।
विधायकः तथा राज्यमन्त्री सुमना सरकार अवदत् यत् मुखर्जीपरिवारस्य सदस्यैः सह विस्तरेण चर्चा कृता अस्ति तथा तेषां सम्पत्तीनां शासकीयाधिग्रहणप्रक्रियायाः विषये विचारः प्रचलति। सा अवदत् यत् बामाप्रसादमुखर्जी महोदयस्य गृहं संग्रहालयरूपेण विकसितं भविष्यति।
उल्लेखनीयम् अस्ति यत् विधानसभानिर्वाचनप्रचारकाले केन्द्रीयगृहमन्त्री अमित शाह महोदयेन डा श्यामाप्रसादमुखर्जिनः पैतृकनिवासस्य विकासस्य वचनं दत्तम् आसीत्। राज्ये सत्तापरिवर्तनस्य अनन्तरम् अधुना तस्य वचनस्य मूर्तरूपप्रदानदिशि राज्यशासनेन एषःप्रयत्नः आरब्धोऽस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani