Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, ०२ जुलाईमासः (हि.स.)। ओडिशां औद्योगिकदृष्ट्या सुदृढां वैश्विक-निवेशस्य प्रमुखकेन्द्रं च कर्तुं राज्य-सर्वकारेण महत्त्वपूर्णं पदक्षेपम् उद्गृहीतम्। राज्यस्य औद्योगिक-इतिहासे नूतनस्य अध्यायस्य प्रारम्भं कुर्वता ओडिशा-औद्योगिक-प्रोत्साहन-निवेश-निगमेन संयुक्तारब-अमीरात-देशस्य प्रतिष्ठितेन आईएचसी-समूहेन सह १.१०-लक्ष-कोटि-रूप्यकाणां मूल्यस्य समेकित-अलुमिनियम-परियोजनायै अवबोधन-पत्रे हस्ताक्षरं कृतम्।
अयं कार्यक्रमः लोकसेवा-भवनस्य सम्मेलन-केन्द्रे आयोजितः, यस्मिन् राज्य-सर्वकारस्य वरिष्ठ-अधिकारिणः, उद्योग-जगतः प्रतिनिधयः विदेश-प्रतिनिधिमण्डलं च उपस्थितम् आसीत्।
प्रस्तावित-परियोजनायां प्रायः ११.५-अर्बुद-अमेरिकी-डॉलर-मात्रकस्य (प्रायः १.१०-लक्ष-कोटि-रूप्यकाणाम्) निवेशः भविष्यति। अस्याः परियोजनायाः निर्माण-चरणे प्रायः ३५,००० जनानां, सञ्चालनानन्तरं च १८,५०० जनानां रोजगार-सृजनं भविष्यति। एवं प्रत्यक्षाप्रत्यक्षरूपेण समग्रतया ५३,५०० अधिक-रोजगार-अवसराः सृज्यन्ते।
ओडिशायाः मुख्यमन्त्री मोहनचरण-माझी उक्तवान् यत् २०३६ तमवर्षपर्यन्तम् ओडिशां समृद्धां, आधुनिकां, समावेशीम् औद्योगिक-राज्यं कर्तुं सर्वकारस्य प्रयत्नाः निरन्तरं प्रगतिम् अन्विच्छन्ति। तेन उक्तं यत् एषा परियोजना ओडिशायाः प्राकृतिक-संसाधनानि प्रतिभां च मध्यपूर्व-प्रदेशस्य निवेशेन प्रौद्योगिक्या च सह संयोज्य दृढां सहभागितां स्थापयिष्यति।
मुख्यमन्त्रिणा उक्तं यत् अस्यां परियोजनायां बॉक्साइट-खननम्, अलुमिना-परिष्करणम्, अलुमिनियम-द्रावण-उद्योगः, स्वकीय-विद्युत्-उत्पादन-केन्द्रम्, अधःप्रवाह-उत्पादनम् आधारभूत-संरचनायाः विकासश्च भविष्यति।
तेन पुनरुक्तं यत् सर्वकारः भूमिं, जलम्, विद्युत्, परिवहन-सुविधाः, आवश्यक-अनुमतयः च समयबद्ध-समन्वित-रीत्या प्रदास्यति।
मुख्यमन्त्री अवदत् यत् वैश्विक-स्तरे ‘हरित-धातवः’ पर्यावरण-अनुकूल-औद्योगिकीकरणस्य च दिशि तीव्रः परिवर्तनः दृश्यते, ओडिशा च अस्मिन् क्षेत्रे अग्रणी-भूमिकां निर्वोढुं प्रतिबद्धा अस्ति। एषा परियोजना राज्यस्य सतत-विकास-लक्ष्यं सुदृढं करिष्यति।
आईएचसी-समूहस्य मुख्य-रणनीति-अधिकारी पीटर-अब्रामः उक्तवान् यत् एतत् अवबोधन-पत्रं भारतस्य संयुक्तारब-अमीरात-देशस्य च सम्बन्धान् अधिकं सुदृढान् करिष्यति। तेन उक्तं यत् एतत् केवलं निवेशः न, अपितु ओडिशायाः सतत-विकासाय दीर्घकालिक-सहभागिता अस्ति। अस्य सहयोगस्य माध्यमेन प्रौद्योगिकी, आधारभूत-संरचना, वित्तीय-सेवाः अन्ये क्षेत्राश्च महत्त्वपूर्णान् परिणामान् प्राप्स्यन्ति।
अदाणी-पोर्ट्स-एण्ड-एसईजेड-लिमिटेड-इत्यस्य प्रबन्ध-निदेशकः करण-अदाणी ओडिशायाः समृद्धां खनिज-सम्पदं औद्योगिक-क्षमतां च प्रशंसितवान्। तेन उक्तं यत् राज्ये देशस्य बृहत्तमः बॉक्साइट-भण्डारः लौह-अयस्क-संसाधनानि च सन्ति, ये ओडिशां औद्योगिक-केन्द्ररूपेण स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेन उक्तं यत् अयं एमओयू ओडिशां केवलं कच्च-पदार्थ-आपूर्तिकर्तृ-राज्यात् मूल्य-संवर्धित-विनिर्माण-केन्द्ररूपेण प्रतिष्ठापयिष्यति।
संयुक्तारब-अमीरात-देशस्य आईएचसी-समूहस्य प्रतिनिधिभिः उक्तं यत् ओडिशा केवलं निवेश-केन्द्रं नास्ति, अपितु दीर्घकालिक-रणनीतिक-विकास-सहभागितायाः महत्त्वपूर्णः भागीदारः अस्ति। तैः विश्वासः व्यक्तीकृतः यत् एषा परियोजना क्षेत्रीय-अर्थव्यवस्थां वैश्विक-स्तरे अधिकां सुदृढां करिष्यति। अस्याः परियोजनायाः अन्तर्गतं खननात् आरभ्य अलुमिनियम-उत्पादनपर्यन्तं सम्पूर्णा मूल्य-शृङ्खला विकसितीकरिष्यते, यस्मिन् बॉक्साइट-खननम्, अलुमिना-परिष्करणम्, द्रावण-उद्योगः, विद्युत्-उत्पादनं च समाविष्टं भविष्यति।
अस्मिन्नवसरे उद्योगमन्त्री सम्पद-चन्द्र-स्वैनः, मुख्यसचिवा अनु-गर्ग, आईएचसी-समूहस्य तथा आईआरएच-संस्थायाः वरिष्ठ-अधिकारिणः, राज्य-सर्वकारस्य वरिष्ठ-अधिकारिणः उद्योग-जगतः प्रतिनिधयश्च उपस्थिताः आसन्। कार्यक्रमे उद्योग-विभागस्य अतिरिक्त-मुख्यसचिवः हेमन्त-शर्मा स्वागत-भाषणम् अकरोत्, इपीकाल-संस्थायाः निदेशिका अबोली-सुनील-नरवणे धन्यवाद-ज्ञापनम् अकरोत्।
Hindusthan Samachar / Divya Ranjan