Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 02 जुलाईमासः (हि.स.)।
आगामिकांवडमेलां दृष्ट्वा हरिद्वारमेलाप्रशासनं पूर्णतया सक्रियम् अभवत्। लक्षशः श्रद्धालूनां सुरक्षितसुगमयात्रायाः सुनिश्चितीकरणार्थं रोडी बेलवालाक्षेत्रे प्रचलमानानि निर्माणकार्याणि युद्धस्तरेण शीघ्रं सम्पादयितुं निर्देशाः प्रदत्ताः। प्रशासनस्य पक्षतः स्पष्टतया उक्तं यत् मेलायाः शुभारम्भात् पूर्वमेव सर्वाणि निर्माणकार्याणि, मार्गसंस्कारकार्याणि, यातायातसम्बद्धव्यवस्थाश्च सम्पन्नाः स्युः, येन कांवडयात्रिकाणां कस्यापि प्रकारस्य असुविधायाः सामना न भवेत्।
मेलाधिकारिण्याः श्रीमती सोनिका इत्यस्याः निर्देशानुसारं गुरुवासरे पुलिसअधीक्षिका सुश्री निशा यादव तथा अपरमेलाधिकारी दयानन्द सरस्वती इत्येतयोः नेतृत्वे पुलिसविभागस्य, मेलाप्रशासनस्य तथा सम्बद्धविभागानां संयुक्तदलेन रोडी बेलवालाक्षेत्रस्य विस्तृतं स्थलीयनिरीक्षणं कृतम्। अस्मिन् अवसरे निर्माणाधीनस्य एडमिन मार्गस्य, बॉक्स कल्वर्ट सेतोः, वाहनस्थापनक्षेत्रस्य तथा समीपवर्तिमार्गाणां सूक्ष्मतया निरीक्षणं कृत्वा व्यवस्थाः समीक्षिताः। कल्वर्टसेतोः एकस्य मार्गभागस्य आधारनिर्माणकार्यं प्राथमिकतया शीघ्रं सम्पादयितुम्, सेतौ कांवडयात्रिकाणां गमनागमनार्थं सुरक्षितमार्गस्य निर्माणं कर्तुम्, अलकनन्दा होटलं योजयन्तं सम्पर्कमार्गम् अपि सुचारुं सुरक्षितं च कर्तुम् निर्णयः कृतः।
प्रशासनेन यातायातव्यवस्थां प्रति अपि महत्त्वपूर्णनिर्णयाः स्वीकृताः। कांवडमेलाकाले रोडी बेलवालाक्षेत्रे केवलं पदयात्रिणः कांवडयात्रिकाः तथा द्विचक्रवाहनैः आगच्छन्तः श्रद्धालवः एव प्रवेशानुमतिं प्राप्स्यन्ति। एतदर्थं द्विचक्रवाहनानां पृथक् वाहनस्थापनव्यवस्था निर्मास्यते। निरीक्षणकाले राजमार्गात् वाहनस्थापनक्षेत्रपर्यन्तं सुरक्षितमार्गस्य सुनिश्चितीकरणार्थं मार्गोन्नयनम्, अवरोधकव्यवस्था, यातायातनियन्त्रणम्, सुरक्षाव्यवस्था तथा जनसमूहनियन्त्रणसम्बद्धविषयेषु विस्तरेण विचारविमर्शः कृतः।
प्रशासनस्य मतानुसारम् अस्मिन् वर्षे कांवडमेलायां श्रद्धालूनां विशालसमागमं दृष्ट्वा सुरक्षा, यातायातव्यवस्था तथा जनसुविधाः सर्वोच्चप्राथमिकतया व्यवस्थिताः क्रियन्ते।
निरीक्षणसमये पीआईयू विभागस्य अधिशासीअभियन्ता प्रवीण कुश, क्षेत्राधिकारी शिशुपाल नेगी, सीपीयू प्रभारी हितेश कुमार तथा पुलिसविभागस्य, मेलाप्रशासनस्य, सम्बद्धविभागानां च अन्ये अधिकारी उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani