शुद्धाय पेयजलाय मर्करी इंटरनेशनल एव लखनऊ विश्वविद्यालय इत्येतयोः मध्ये जाता सहमतिः
लखनऊ, 20 जुलाईमासः (हि.स.)। शुद्धसुरक्षितपेयजलस्य क्षेत्रे अनुसन्धानस्य आधुनिकप्रौद्योगिकीनां विकासस्य च दिशि महत्त्वपूर्णां पहलां कुर्वन् सोमवासरे मर्करी इन्टरनेशनल प्राइवेट लिमिटेड कम्पनी तथा लखनऊविश्वविद्यालयस्य मध्ये एकः समझौतापत्रः एमओयू सम्
शुद्ध पेयजल के लिए मर्करी इंटरनेशनल व लखनऊ विश्वविद्यालय के मध्य एमयू होते


लखनऊ, 20 जुलाईमासः (हि.स.)।

शुद्धसुरक्षितपेयजलस्य क्षेत्रे अनुसन्धानस्य आधुनिकप्रौद्योगिकीनां विकासस्य च दिशि महत्त्वपूर्णां पहलां कुर्वन् सोमवासरे मर्करी इन्टरनेशनल प्राइवेट लिमिटेड कम्पनी तथा लखनऊविश्वविद्यालयस्य मध्ये एकः समझौतापत्रः एमओयू सम्पादितः।

मर्करी इन्टरनेशनल प्राइवेट लिमिटेड कम्पन्याः निदेशकः दुर्गेशरायः उक्तवान् यत् तस्य कम्पनी कृत्रिमबुद्धिमत्ताआधारितसमाधानानां माध्यमेन शुद्धपेयजलस्य क्षेत्रे कार्यं करोति। एषः प्रौद्योगिकीसहयोगः सामाजिकउत्तरदायित्वस्य अन्तर्गतं विविधजनहितकारीपहलानां निःशुल्कसहयोगरूपेण सञ्चाल्यते। अस्य उद्देश्यं आधुनिकप्रौद्योगिक्याः उपयोगेन समाजाय सुरक्षितं गुणवत्तायुक्तं च पेयजलम् उपलब्धं कर्तुं अनुसन्धानस्य, नवाचारस्य, प्रौद्योगिकीविकासस्य च प्रोत्साहनं जनस्वास्थ्यस्य च उन्नयनम् अस्ति।

रायः अवदत् यत् कम्पनी विगतत्रिंशद्वर्षेभ्यः भारतीयमानकब्यूरोसम्बद्धकार्यं करोति तथा आधुनिकप्रौद्योगिक्याः कृते निरन्तरं प्रयत्नशीलाऽस्ति। कम्पनी भारतसर्वकारेण अन्याभिः राज्यसर्वकारैश्च सह शुद्धपेयजलस्य क्षेत्रे अपि कार्यं करोति।

लखनऊविश्वविद्यालयस्य कुलपतिः प्रोफेसरः जे पी सैनी अस्मिन् अवसरे उक्तवान् यत् लखनऊविश्वविद्यालयस्य द्वितीयपरिसरस्य कृते एतत् अत्यन्तं गौरवस्य प्रसन्नतायाश्च विषयः अस्ति यत् शुद्धपेयजलस्य इव जनहितपर्यावरणसंरक्षणसम्बद्धे महत्त्वपूर्णविषये मर्करी इन्टरनेशनल प्राइवेट लिमिटेड इत्येतया कृत्रिमबुद्धिमत्तिआधारितप्रौद्योगिकीकम्पन्या सह सहयोगः स्थापितः। अयं समझौतपत्रः विश्वविद्यालये अनुसन्धानस्य, नवाचारस्य, प्रौद्योगिकीविकासस्य च नूतनां दिशां प्रदास्यति तथा विद्यार्थिभ्यः शोधार्थिभ्यश्च आधुनिकप्रौद्योगिकीषु कार्यं कर्तुं अवसरम् उपलब्धं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani