Enter your Email Address to subscribe to our newsletters

नोएडा, 20 जुलाईमासः (हि.स.)।
जनपदस्य गौतमबुद्धनगरस्य जिला प्राथामिकशिक्षा विभागः राजकीयविद्यालयेषु अध्ययनरतबालकानां प्रदीयमानानां सुविधानां विषये अभिभावकान् जागरूकान् करिष्यति। विभागेन डायरेक्ट बेनिफिट ट्रान्सफर (डीबीटी) इत्यस्य राशेः समुचितोपयोगः सुनिश्चितः भवेत् इति दृष्ट्या कठोरनिगराणी आरब्धा अस्ति। अभिभावकान् जागरूकान् कर्तुं विद्यालयेषु आयोज्यमानाभिः पैरण्ट-टीचर-मीटिङ् (पीटीएम) इत्याभिः उपवेशनैः डीबीटी-राशेः समुचितोपयोगस्य विषये सूचना प्रदास्यते। विद्यालयप्रबन्धनसमितयः विद्यालयस्तरे निगराणीं करिष्यन्ति। परिषदीयविद्यालयानां छात्रेभ्यः गणवेशः, उपानहौ, मोजकौ तथा स्वेटरार्थं डीबीटी-योजनायाः अन्तर्गतं १२०० रूप्यकाणि प्रदीयन्ते। अधुना तस्याः प्रत्यक्षनिगराणी जनपद-बेसिक-शिक्षाधिकारी तथा विद्यालयस्य प्रधानाध्यापकः करिष्यतः। खण्डशिक्षाधिकारी अपि स्वस्वक्षेत्रस्य विद्यालयानाम् औचकनिरीक्षणं करिष्यन्ति।
विभागस्य पुरतः एतादृशाः बहवः प्रकरणाः समागताः यत्र डीबीटी-योजनायाः अन्तर्गतं धनराशिः अभिभावकानां बैङ्क-लेखेषु प्रेषिता अस्ति। तथापि बालकाः गणवेशविहीनाः, जीर्णपुटकधारिणः अथवा उपानह-मोजक-विहीनाः एव विद्यालयम् आगच्छन्ति। स्थलीयप्रतिपुष्ट्या तथा औचकनिरीक्षणैः एतत् प्रकाशमागतं यत् बहवः अभिभावकाः बालकानां शिक्षायै शैक्षिकसामग्र्यै च प्रदत्तां धनराशिम् अन्यासु आवश्यकतासु व्यययन्ति। एवं बजटस्य विमोचनानन्तरमपि बालकाः तस्य लाभं न प्राप्नुवन्ति। अस्यैव कारणाय जागरूकतायाः अभियानं प्रवर्त्यते।
जनपदस्य गौतमबुद्धनगरस्य बीएसए राहुल पंवारः सोमवासरे अवदत् यत् अस्य प्रयोजनार्थं शिक्षकाः अभिभावकैः सह आयोज्यमानासु उपवेशनासु तान् जागरूकान् कर्तुं निर्देशिताः सन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani