बाङ्ग्लादेशस्य नव मुस्लिम-धर्मगुरवः काठमाण्डूं प्राप्तवन्तः, भ्रमणस्य उद्देश्यस्य न अभवत् प्रकटीकरणम्
काठमाण्डूनगरम्, २० जुलाईमासः (हि.स.)। बाङ्ग्लादेशस्य नव मुस्लिम-धर्मगुरवः नेपालम् आगतवन्तः इति ज्ञात्वा नेपालस्य सुरक्षाबलानि सतर्काणि अभवन्। तथापि तेषां नेपाल-भ्रमणस्य उद्देश्यस्य विषये अद्यापि आधिकारिक-रीत्या कापि सूचना सार्वजनिकी न कृता। तेषां भ
काठमांडू स्थित त्रिभुवन अंतर्राष्ट्रीय हवाईअड्डा


काठमाण्डूनगरम्, २० जुलाईमासः (हि.स.)। बाङ्ग्लादेशस्य नव मुस्लिम-धर्मगुरवः नेपालम् आगतवन्तः इति ज्ञात्वा नेपालस्य सुरक्षाबलानि सतर्काणि अभवन्। तथापि तेषां नेपाल-भ्रमणस्य उद्देश्यस्य विषये अद्यापि आधिकारिक-रीत्या कापि सूचना सार्वजनिकी न कृता। तेषां भ्रमण-कार्यक्रमोऽपि अद्यावधि सार्वजनिकः न कृतः।

त्रिभुवन-अन्ताराष्ट्रिय-विमानस्थानकस्य आप्रवासन-विभागस्य अनुसारं बाङ्ग्लादेशस्य नव मुस्लिम-धर्मगुरवः गत-रात्रौ प्रायः नववादने बटिक-एयर इत्यस्य ओडी-१८२ (कुआलालम्पुर–काठमाण्डू) विमान-सेवया नेपालम् आगतवन्तः। एतेभ्य: सर्वेभ्य: त्रिंशद्दिनात्मकं पर्यटन-पारपत्रम् प्रदत्तम्। आप्रवासन-विभागस्य मते तेषां नेपाल-प्रवासः प्रायः द्विसप्ताह-पर्यन्तं भविष्यति। नेपालम् आगतेषु धर्मगुरुषु मोहम्मद-अक्कास-अली, अमीनुल-इस्लाम, मोहम्मद-मुस्ताफिजार-रहमान, मोहद-गोलाम-मोस्तोफा, मोहम्मद-मोक्लासुर-रहमान, एकेएम-मोनिरुज्जमान-लावलु, सैयद-शौकत-अली, मोहम्मद-मोन्सुर-रहमान तथा मोहम्मद-अनिसुर-रहमान इत्येते समाविष्टाः।

नेपाल-आरक्षकाणां आतङ्कवाद-निरोध-प्रकोष्ठस्य एकः वरिष्ठ-अधिकारी अवदत् यत् एते स्पष्ट-कार्यक्रमं विना सहसा आगतवन्तः, अतः आरक्षकाणां विशेष-अनुसन्धान-विभागः तेषु विशेष-दृष्टिं स्थापयति। नेपालस्य सुरक्षाबलानां आशङ्का अस्ति यत् ते मुक्त-सीमायाः लाभम् उपयुज्य भारतं प्रवेष्टुं शक्नुवन्ति। अतः सर्वेषु सीमावर्ती-जनपदेषु सुरक्षाबलेभ्यः सतर्कता-निर्देशाः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan