Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २० जुलाईमासः (हि.स.)। ब्राह्मण-समाजस्य वैश्विक-सङ्घटनस्य विप्र-फाउण्डेशन इत्यस्य जोन-१२-सी द्वारा महाराष्ट्रस्य जालना-नगरे आयोजिते भव्ये शपथ-ग्रहण-पदग्रहण-समारोहे राष्ट्रीय-सङ्घटन-महामन्त्री डाॅ. सीए सुनील-शर्मा ‘विप्र-जीवन-गौरव-पुरस्कारेण’ सम्मानितः। समाजस्य सङ्घटनात्मक-सशक्तीकरणे, सेवायाम्, संस्कारेषु तथा समर्पण-भावस्य राष्ट्रीय-स्तरे नूतनां दिशां प्रदाने, समाजहिताय च तस्य उल्लेखनीय-योगदानस्य सम्मानार्थम् एषः पुरस्कारः प्रदत्तः।
समारोहे डाॅ. शर्मणे प्रावारं, सम्मान-पत्रं तथा पुष्पमालां समर्प्य सम्मानं कृतम्। अस्मिन्नवसरे उपस्थितैः समाजबन्धुभिः करताल-ध्वनिना सह उत्थाय तस्य अभिनन्दनं कृतम्।
अस्मिन् कार्यक्रमे क्षेत्रीयाध्यक्षः सीए आर.बी. शर्मा, राष्ट्रीय-सचिवः सुरेश-पारीकः, पर्यवेक्षकः राजेश-बुटोले, जोन-१२-सी-अध्यक्षः रामनिवास-गौडः, सङ्घटन-महामन्त्री पवन-जोशी, कोषाध्यक्षः ललित-बिजावतः, राष्ट्रीय-कार्यकारिणी-सदस्याः रमेश-शर्मा, बंकटलाल-खण्डेलवालः, दामोदर-पाण्डेयः, सीए अनुप-शुक्लः, नाशिक-जोन-अध्यक्षः ओमप्रकाश-शर्मा, जोन-उपाध्यक्षः किशोर-उपाध्यायः, सीए सी.एम. शर्मा, श्यामसुन्दर-पारीकः, अरुण-कुमार-ओझा, राजेन्द्र-शर्मा, छत्रपति-सम्भाजीनगर-चैप्टर-अध्यक्षः विवेक-तिवारी, सङ्गठन-महामन्त्री विनोद-बबेरवालः, कोषाध्यक्षः पुरुषोत्तम-शर्मा, परभणी-अध्यक्षः अधिवक्ता आनन्द-शर्मा, सङ्गठन-महामन्त्री पवन-पुरोहितः, कोषाध्यक्षः सञ्जय-शर्मा, बीड-अध्यक्षः महेश-बोरः, सङ्गठन-महामन्त्री योगेश-दायमः, कोषाध्यक्षः किशोर-शर्मा, जालना-अध्यक्षः जयप्रकाश-श्रीमाली, सङ्गठन-महामन्त्री सतीश-शर्मा, कोषाध्यक्षः महेश-खण्डेलवालः, महिला-प्रकोष्ठ-जालना-अध्यक्षा रश्मी-शर्मा, सङ्घटन-महामन्त्री प्रिया-अबोटी, कोषाध्यक्षा विद्या-शर्मा, युवा-प्रकोष्ठ-अध्यक्षः गौरव-बोरः, सङ्घटन-महामन्त्री प्रतीक-सारस्वतः, कोषाध्यक्षः रोहित-गौडः, वीआईसीसीआई-अध्यक्षः विशाल-शर्मा, सचिवः रवीन्द्र-अबोटी इत्यादयः राष्ट्रीय-, क्षेत्रीय- तथा स्थानीय-पदाधिकारीणः, बहुसंख्यकाः समाजबन्धवः मातृशक्तिश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan