Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जुलाईमासः (हि.स.)। देहली-आरक्षकैः कॉकरोच-जनता-पक्षस्य प्रदर्शनकारिभ्यः शान्तिपूर्ण-रीत्या प्रदर्शनं कर्तुं तथा कस्यापि हिंसात्मकायाः अवैधानिकायाः वा गतिविधेः दूरं स्थातुम् आग्रहः कृतः। तेन सह सामान्य-जनान् सामाजिक-माध्यमेषु प्रसारितेषु दुष्प्रचारेषु तथा अप्रमाणित-सूचनासु विश्वासं न कर्तुं, ताः अग्रे न प्रसारयितुं च परामर्शः प्रदत्तः।
देहली-आरक्षकाणाम् अपर-आरक्षक-आयुक्तः राजीव-रञ्जनः सोमवासरे एकस्मिन् वक्तव्ये अवदत् यत् देहली-आरक्षकाः सर्वान् प्रदर्शनकारिणः संयमं धारयितुं शान्तिं विधि-व्यवस्थां च रक्षितुं आरक्षकैः सह सहयोगं कर्तुम् अनुरोधं कुर्वन्ति। सः अवदत् यत् प्रदर्शनकारिणः शान्तिपूर्ण-रीत्या स्वविरोधं प्रकटयेयुः तथा कर्तव्ये नियुक्तैः आरक्षक-कर्मिभिः प्रदत्तान् वैधानिक-निर्देशान् पालयेयुः।
सः पुनरपि अवदत् यत् सार्वजनिक-व्यवस्था अविच्छिन्ना तिष्ठेदिति कृते सर्वैः अवैधानिक-हिंसात्मक-क्रियाकलापेषु सहभागित्वं परिहर्तव्यम्।
देहली-आरक्षकैः सामान्य-नागरिकेभ्यः अपि आग्रहः कृतः यत् ते सामाजिक-माध्यमेषु प्रसारितेषु दुष्प्रचारेषु, भ्रामकासु अथवा अप्रमाणित-सूचनासु विश्वासं न कुर्वन्तु, न च ताः अग्रे प्रसारयन्तु। आरक्षकैः जनाः केवलं विश्वसनीय-स्रोतेभ्य प्राप्तासु सूचनासु एव विश्वासं कर्तुं तथा शान्तेः, सौहार्दस्य, विधि-व्यवस्थायाश्च संरक्षणे सहयोगं दातुम् आग्रहिताः।
Hindusthan Samachar / Divya Ranjan