Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, २० जुलाईमासः (हि.स.)। नागरिकेभ्यः शासकीय-सेवानां शीघ्रं, पारदर्शीनं तथा समयबद्धं लाभं प्रदातुम् उद्देश्येन सोमवासरे जनपदस्तरीयः प्रशिक्षण-कार्यक्रमः आयोजितः। कलक्टरेट-स्थिते प्रेरणा-सभागृहे तथा सीजी-स्वान् वीसी-कक्षे आयोजिते अस्मिन् प्रशिक्षणे सेवासेतु-पटलद्वारा प्रारब्धानां विविध-नवीन-ई-सेवानां सञ्चालनस्य तथा तासाम् अन्तर्जाल-आवेदन-प्रक्रियायाः विस्तृता सूचना प्रदत्ता।
अस्मिन् आयोजने जनपदस्य समस्त-ग्रामपञ्चायतानां सचिवाः, नगरीय-निकायानाम् अधिकारीणः कर्मचारीणश्च तथा खाद्य-विभागस्य राशन-कार्ड-प्रभारिणः विशेषरूपेण उपस्थिताः आसन्।
प्रशिक्षणस्य समये ई-गवर्नन्स-सोसायटी इत्यस्य जनपद-प्रबन्धकः राकेश-भट्टः सेवासेतु-पटले संयोजिताभिः नवीनाभिः नागरिक-केन्द्रित-सेवाभिः सम्बद्धां तकनीकी-सूचनां प्रदत्तवान्। तेन उक्तं यत् अधुना पटलद्वारा राशन-कार्ड-मध्ये नवीन-नाम-संयोजनम्, नाम-विलोपनम् तथा एपीएल-बीपीएल-राशन-कार्ड-इत्यनयोः कृते आवेदनस्य सुविधा उपलब्धा कृता अस्ति। तदतिरिक्तं स्थानीय-निकायैः तथा अन्य-विभागैः सम्बद्धाः सेवाः, यथा विवाह-पञ्जीकरण-प्रमाणपत्रम्, नवीन-व्यापार-अनुज्ञापत्रम्, भवन-अनुज्ञा तथा नल-संयोजनस्य आवेदनमपि अनेनैव पटलेन निष्पादयितुं शक्यते। अपरञ्च राजपत्रित-आदेशस्य अन्तर्गतं नाम-परिवर्तनस्य तथा आईटीआई-स्थानान्तरण-सम्बद्ध-सेवानां कार्य-प्रणाल्याः विषयेऽपि क्षेत्रीय-कर्मचारिणः अवगताः कृताः।
कार्यक्रमे उपस्थितेभ्यः प्रतिभागिभ्यः अन्तर्जाल-आवेदनस्य प्रक्रिया, प्रस्तुत-तथ्यानां सत्यापनम् तथा विभागीय-अनुमोदनस्य सम्पूर्णा कार्यप्रणाली व्यावहारिकरूपेण शिक्षिता। अस्य प्रशिक्षणस्य मुख्योद्देश्यं सेवासेतु-केन्द्राणां माध्यमेन सामान्य-नागरिकेभ्यः प्रदीयमानाः सुविधाः अधिकाः सुगमाः कर्तुं तथा आवेदनानां समयबद्ध-निराकरणं सुनिश्चितं कर्तुम् अस्ति, येन सामान्य-जनतायाः अधिका सुविधा भवेत्।
Hindusthan Samachar / Divya Ranjan