अनाथ-भगिनीभ्यः मुख्यमन्त्री-बाल-सेवा-योजनायाः लाभः प्रदास्यते
देवरियानगरम्, २० जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य देवरिया-जनपदे जनपदाधिकारीण: मधुसूदन-हुल्गी-महोदयस्य जनता-दर्शने सोमवासरे हृदयस्पर्शी घटना समुपस्थिता। बरहज-तहसीलस्य मोहरा-ग्रामनिवासिनी ज्योति-यादवः स्व-चतसृणां भगिनीनां भविष्यस्य विषये साहाय्य-याच
जिलाधिकारी


देवरियानगरम्, २० जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य देवरिया-जनपदे जनपदाधिकारीण: मधुसूदन-हुल्गी-महोदयस्य जनता-दर्शने सोमवासरे हृदयस्पर्शी घटना समुपस्थिता। बरहज-तहसीलस्य मोहरा-ग्रामनिवासिनी ज्योति-यादवः स्व-चतसृणां भगिनीनां भविष्यस्य विषये साहाय्य-याचनार्थम् उपस्थितवती। बालिकायाः पूर्ववार्तां श्रुत्वा जनपदाधिकारी तत्क्षणमेव सम्बन्धित-अधिकारिभ्यः आवश्यक-कार्यवाहीं कर्तुम् आदेशं दत्त्वा बालिकाः शासनस्य विविधाभिः योजनाभिः सम्बद्धाः कर्तुं निर्दिष्टवान्।

फरियादिनी ज्योति-यादवः निवेदितवती यत् तस्याः मातापितरौ दिवङ्गतौ स्तः। परिवारे चतस्रः भगिन्यः सन्ति, आर्थिक-स्थितिरेव अत्यन्तं दुर्बला अस्ति, अतः तासां अध्ययनम् प्रभावितम् अभवत्। सा स्वस्याः स्वभगिनीनां च शिक्षां निरन्तरं प्रवर्तयितुं प्रशासनात् साहाय्यम् अयाचत।

जनपदाधिकारीण: प्रकरणं गम्भीरतया संवेदनशीलतया च गृह्णन् बालिकां तस्याः भगिनीं च मुख्यमन्त्री-बाल-सेवा-योजनया आच्छादयितुं तत्क्षणमेव आवेदन-पत्रं पूरितवान्। सः सम्बन्धित-अधिकारिणः शीघ्रमेव सर्वाः औपचारिकताः सम्पाद्य योजनायाः स्वीकृतिं सुनिश्चितां कर्तुम् आदिष्टवान्।

जनपदाधिकारी अवदत् यत् बालिकाभ्यः शासनस्य सर्वासां पात्र-योजनानां लाभः प्रदीयताम्, येन तासां शिक्षा कस्यापि विघ्नं विना निरन्तरं प्रवर्तेत तथा तासां भविष्यं सुरक्षितं भवेत्। आवश्यकतानुसारम् अन्याभिः अपि शासकीय-योजनाभिः ताः सम्बद्धाः कर्तुं सः अधिकारिणः निर्दिष्टवान्।

तदतिरिक्तं जनपदाधिकारी ज्योति-यादव-इत्यस्याः राजकीय-महिला-महाविद्यालये प्रवेशं सुनिश्चितं कर्तुमपि सम्बन्धित-अधिकारिणः आदिष्टवान्, येन उच्चशिक्षा-प्राप्तौ कापि कठिनता न भवेत्।

जनपदाधिकारिणः अस्य मानवीय-संवेदनशील-प्रयत्नस्य परिणामस्वरूपं बालिकासु भविष्यस्य विषये नूतना आशा जागृता। जनता-दर्शने उपस्थितैरपि जनैः अस्य त्वरित-कार्यवाह्याः संवेदनशील-निर्णयस्य च प्रशंसा कृता, आवश्यकता-ग्रस्त-परिवाराणां कृते एतत् प्रेरणादायकं पदक्षेपम् इति कथितम्।

Hindusthan Samachar / Divya Ranjan