देहल्यां विद्यार्थिषु आरक्षक-कार्यवाह्याः ममता-बैनर्जी निन्दाम् अकरोत्, लोकतन्त्रे दण्ड-प्रहारः न, अपितु संवादः भवेत्
कोलकातानगरम्, २० जुलाईमासः (हि.स.)। देहल्यां छात्र-यछनां प्रदर्शनस्य समये आरक्षकैः कृतां कार्यवाहीम् अधिकृत्य पश्चिमबङ्गस्य पूर्व-मुख्यमन्त्री ममता-बैनर्जी केन्द्र-सर्वकारं लक्ष्यी-कृतवती। सामाजिक-माध्यमे प्रकाशिते वक्तव्ये सा आरक्षक-कार्यवाह्याः त
ममता


कोलकातानगरम्, २० जुलाईमासः (हि.स.)। देहल्यां छात्र-यछनां प्रदर्शनस्य समये आरक्षकैः कृतां कार्यवाहीम् अधिकृत्य पश्चिमबङ्गस्य पूर्व-मुख्यमन्त्री ममता-बैनर्जी केन्द्र-सर्वकारं लक्ष्यी-कृतवती। सामाजिक-माध्यमे प्रकाशिते वक्तव्ये सा आरक्षक-कार्यवाह्याः तीव्रां निन्दां कृत्वा अवदत् यत् लोकतन्त्रे प्रश्नानां समाधानं दण्ड-प्रहारेण अश्रु-वाते: प्रयोगेण वा न, अपितु संवादेन भवितव्यम्।

ममता-बैनर्जी स्वप्रकाशने अवदत् यत् एषः देशः विद्यार्थिनां, कृषकाणां, महिलानां, श्रमिकाणां तथा प्रत्येकं नागरिकस्य अस्ति। सा अवदत् यत् असहमत्याः अभिव्यक्तिः लोकतान्त्रिक-अधिकारः अस्ति, तस्याः अपराधवत् व्यवहारः न करणीयः। तस्याः मते आरक्षक-बलस्य प्रयोगः सुशासनस्य विकल्पः भवितुं न शक्नोति।

ममता-बैनर्जी प्रदर्शने सहभागीभूतानां विद्यार्थिनां यूनां च प्रति स्वैक्यं प्रकटयन्ती अवदत् यत् तेषां याचना: चिन्ताश्च गम्भीरतया श्रोतव्याः। सा पुनरपि अवदत् यत् अस्मिन् सम्पूर्ण-प्रकरणे उत्तर-दायित्वस्य निर्धारणम् अत्यावश्यकम्।

स्वसन्देशस्य अन्ते ममता-बैनर्जी प्रदर्शने सहभागीभूतानां यूनां साहसस्य दृढतायाश्च प्रशंसां कृत्वा अवदत् यत् तैः निर्भयतया स्वमतस्य प्रस्तुतेः वास्तविकम् उदाहरणं समग्र-देशस्य पुरतः प्रस्तुतम्।

उल्लेखनीयं यत् सोमवासरे देहल्यां संसद्-शोभायात्राया: समये बहुसंख्यकाः छात्राः युवानश्च मार्गेषु अवतीर्णाः। प्रदर्शनकारिणां आरक्षकाणां च मध्ये संघर्षानन्तरम् आरक्षकैः जनसमूह-नियन्त्रणार्थं अवरोधकाः स्थापिताः, अश्रु-वाति-गोलकानी प्रक्षिप्ताः तथा बलस्य प्रयोगः कृतः। प्रदर्शनकारिणः शिक्षा-व्यवस्थायाः सुधारं तथा अन्याः याचना: अधिकृत्य विरोध-प्रदर्शनं कुर्वन्तः आसन्।

/ अंशु गुप्ता