गुरुपूर्णिमा-पाक्षिक-कार्यक्रमे गुरुवन्दना, भजनानि तथा संस्कृत-श्लोकैः मध्यप्रदेशस्य ३२०५ शासकीय-विद्यालयाः गुञ्जिताः
प्रदेशस्य द्विलक्षाधिकैः विद्यार्थिभिः संस्कृतस्य भारतीय-संस्कृतेश्च महत्त्वम् अवगतम् भोपालनगरम्, २० जुलाईमासः (हि.स.)। मध्यप्रदेशस्य शासकीय-विद्यालयेषु विद्यार्थिनां सर्वाङ्गीण-विकासाय, सांस्कृतिक-मूल्यानां संवर्धनाय तथा गुरु-शिष्य-परम्परायाः सुद
गुरु पूर्णिमा पखवाड़ा


प्रदेशस्य द्विलक्षाधिकैः विद्यार्थिभिः संस्कृतस्य भारतीय-संस्कृतेश्च महत्त्वम् अवगतम्

भोपालनगरम्, २० जुलाईमासः (हि.स.)। मध्यप्रदेशस्य शासकीय-विद्यालयेषु विद्यार्थिनां सर्वाङ्गीण-विकासाय, सांस्कृतिक-मूल्यानां संवर्धनाय तथा गुरु-शिष्य-परम्परायाः सुदृढीकरणाय आयोजितस्य गुरुपूर्णिमा-पाक्षिक-कार्यक्रमस्य अन्तर्गतं सोमवासरे विद्यालयेषु संस्कृत-श्लोक-पाठः, गुरु-वन्दना तथा भजन-कार्यक्रमः आयोजितः। विद्यार्थिभिः संस्कृत-श्लोकानां पाठः, गुरुवन्दना तथा भजनानां प्रस्तुतीकरणं कृतम्।

अस्मिन् कार्यक्रमे प्रदेशस्य ३२०५ शासकीय-विद्यालयानां २,१०,९९९ विद्यार्थिनः सहभागित्वम् अकुर्वन् तथा भारतीय-संस्कृतेः, गुरु-शिष्य-परम्परायाश्च महत्त्वम् अवगच्छन्। सर्वे विद्यार्थिनः गुरोः प्रति स्वीयां श्रद्धां सम्मान-भावं च प्रकटितवन्तः।

वस्तुतः लोक-शिक्षण-सञ्चालनालयेन २९ जुलाईमासपर्यन्तं गुरुपूर्णिमा-पाक्षिक-कार्यक्रमस्य आयोजनं क्रियते। विद्यार्थिनः भारतीय-सांस्कृतिक-परम्पराभिः, नैतिक-मूल्यैः तथा गुरोः प्रति आदर-भावेन सम्बद्धाः भवन्तु, विद्यालयेषु च संस्कारयुक्तस्य सकारात्मक-शैक्षणिक-वातावरणस्य प्रोत्साहनं भवतु इति उद्देश्येन एषः कार्यक्रमः आयोजितः। अस्य अन्तर्गतं प्रदेशस्य सर्वेषु विद्यालयेषु विविधाः गतिविधयः आयोज्यन्ते। तासु विद्यालयेषु संस्कृत-श्लोक-पाठः, गुरु-वन्दना तथा भजन-कार्यक्रमस्य आयोजनमपि अभवत्।

Hindusthan Samachar / Divya Ranjan